________________
इन्द्रियपरीक्षा ।
ननु नायं गुणविनियोग: साधीयान्पृथिव्याश्चतुर्गुणत्वे पार्थिवेन प्राणेन्द्रि येण चतुर्णामपि तद्गुणानां ग्रहणं स्यात्, एवमुत्तरेष्वपि वक्तव्यं तस्मादेकैकगुत्वमेव भूतानामुच्यताम्, नैतदेवं गुणाः स्वेच्छया विप्रलभ्यन्ते, यथोपलभ्यन्ते तथा व्यवस्थाप्यन्ते, प्रतीतिप्रमाणका वयम्, तत्र पार्थिवे द्रव्ये चतुर्णामपि गुणानामुपलम्भः कथमेकगुरणां पृथिवीं ब्रूमः रूपैकगुणे च तेजसि पृथिव्युदकयोर्वायुवदरूपत्वादप्रत्यक्षत्वं स्यात्, तस्मात्त्रीणि रूपवन्ति द्रव्याणि ।
यद्येवं सर्वेषां सर्वत्रोपलम्भात्सर्वाणि सर्वगुणानि भवन्तु भूतानि, पटपटाते पृथिवी छलछलायन्ते आपः धकधकायते तेजः कथकथायते वायुरिति सर्वेषां गुणः शब्दः स्यात्, उच्यते - न सर्वे गुणाः सर्वत्रोपलभ्यन्ते निर्गन्धानामपां सर्वत्र दर्शनात्, क्लिन्नरूपादौ तु पार्थिवावयवनिष्क्रान्त्या गन्धः पयस्युपलभ्यते ।
एवं सुवर्णादौ तैजसे द्रव्ये संयुक्तसमवायाद्रसाद्युपलब्धिः, शब्दस्तु सकालमाकाशवृत्तिरेव प्रतीयते, पृथिव्याद्यवयवसंयोगविभागप्रभवस्त्व सांविति तदाश्रितत्व भ्रममावहति न त्वाकाशाद्विना तस्य ग्रहणमिति आकाशं तत एव शब्द इत्येतश्च प्राङ्क निर्णीतं गुणत्वम् ।
५७
"
यच्च पृथिव्याश्चतुर्गुणत्वे तद्गुणानां चतुर्णामपि पार्थिवप्राणेन्द्रियग्राह्यत्वं स्यादिति, तन्न गुणोत्कर्षस्य नियामकत्वात्, सातिशयगन्धगुणाधिकरणे विजातीय द्रव्यावयवसंस्पर्शलेशरहितैः केवल पृथिव्यवयवैरदृष्टसहकारिभिर्घटितं घ्राणेन्द्रियमिति गन्धस्यैव ग्राहकम् एतदेव च भूयस्त्वमाचक्षते यथाऽऽह :- [वै० ८ २५ ] 'भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञानप्रकृतिः', इहाप्यु ( १ ) क्तम्- 'तद्व्यवस्थानं तु भूयस्त्वादिति [गो० ३|१|७१] ' दृश्यन्ते च केवलपृथिव्यवयवोपादानेष्वपि पदार्थेषु व्यवस्थितकार्यनियमाः शक्तयो यथा
कणव्रत:
पार्थिवत्वाविशेषेऽपि विषं मरणकारणम् । अगदद्रव्यमन्यत्तु जीविताय प्रकल्पते ॥
तस्मादपर्यनुयोगोऽयं 'पार्थिवेन प्राणेन गन्धवत्तद्रसादयोऽपि कथं न गृह्यते' इति, सातिशयप्रकृतियोगेऽपि च न स्वगुणग्रहणनैपुणमिन्द्रियाणामितीन्द्रियचिन्तायां निर्णीतम्, श्रोत्रेणाकाशगुणस्य शब्दस्य ग्रहणमिति परिशेषानुमा प्रमाणकोऽयमर्थः शब्दपरीक्षायामेव परीक्षित इत्यलमतिप्रसङ्गेन ।
इति निपुणधियामसम्मता सकलगुणैकगुणत्वकल्पना । तदयमकलुषोऽभ्युपेयतां गुणविनियोग विधिर्यथोदितः ॥
( १ ) इहापि - न्यायदर्शनेऽपि । तद्वयत्रस्थानमिति । भूयस्त्वाज्जलाद्यविशिष्टपृ. थिव्यारब्धत्वात् तद्व्यवस्थानं घ्राणादीन्द्रियत्वव्यवस्थितिः ।
८