________________
न्यायमअर्याम् गन्धत्वादीनां तु प्राणादिग्राह्यत्वादतिव्याप्तिरिति पृथिव्यादिगुणा इति विशेषणोपादानम् , ते चामी गन्धादय इन्द्रियार्था भोग्याः सन्तः सक्तिहेतवः संसारद्राघिमाणमावहन्तीति हेयतया भावयितव्याः ।। .. नन्वेवं गन्धादिगुणाधिकरणस्यावयविनः प्रथमस्य रागहेतोरसंग्रहः स्यात, वक्ष्यति च 'तन्निमित्तं त्ववयव्यभिमान' [गो० अ० ४ आ०२ सू० ३] इति, संख्यापरिमाणादिगुणान्तराणामपि रागहेतुत्वमस्त्येव, यथा बर्हिकलापानुकारि. परिमृदितकुसुमदलपटलशबलविलासिनीकेशपाशवृत्ति रूपं हरति हृदयं यूनाम् तथा तद्गता बहुत्वसंख्याऽपि, उत्तप्तकमकशिलानिभनितम्बबिम्बरूपवत्तत्परिमाणमपि हरति च सरभसम् , अवयवसंयोगविभागाद्यपि तथा कन्दुकादिक्रीडासु किसलयितविसरसविलासविसरमधरपरिभ्रमणादि कन्दुकान्तम् , तथान्त्यजजात्यादिपरिहारेण स्वानुरूपजातियोगित्वमपीत्यादि सर्व द्रव्यगुणकर्मादि सक्तिकारणमनुक्तं स्यात् । ___ तत्र के चित्पृथिव्यादिगुणा इति द्वन्द्वसमासं व्याचक्षते पृथिव्यादीनि च गुणाश्चेति, पृथिव्यादिपदेन गुणाधिकरणमवयवि द्रव्यमुक्तमाश्रितत्वविशेषणत्वाभ्यां सर्वे गुणा इति, गुणग्रहणेन च संख्यापरिमाणादिवत्कर्मसामान्याद्यपि सर्वमुक्तमतो नासंग्रह इति ।
तदिदमनुपपन्नं गन्धादिग्रहणस्य हि तदानीमानर्थक्यं गुणाश्चेत्यनेनैव गता. र्थत्वात् , विशेषख्यापनार्थ तदुपादानमिति चेत्तर्हि किं द्वन्द्वसमासवर्णनेन अयमेवास्तु समाधिः । ___ यद्यपि द्रव्यकर्मसामान्यानाम् अन्येषां च संख्यापरिमाणादिगुणानामस्त्येव सक्तिहेतुता, तथापि प्राधान्येन गन्धादीनामेव सा, दृश्यते हि रूपादिनिरपेक्षस्य द्रव्यस्य संख्यादेः सामान्यस्य वा न सक्तिहेतुत्वं समस्तीति रूपादय एव मुख्यं रागकारणं तत्र झगिति बुद्धेः प्रसरकरणादुक्तं च
तथापि नितरां रागवृद्धयै रूपादयो नृणाम् । .. त एव कविभिीताः पञ्चषोः पञ्च सायकाः ।। तस्मात्पृथिव्यादीनां गुणा इति षष्ठीसमास एव श्रेयान , गुणव्यतिरिक्तश्च गुणी पूर्वमेव समर्थितो यमहमद्राक्षं तं स्पृशामीति प्रत्ययप्रामाण्यात् ।
पृथिव्यादिगुणा इति यदुक्तं तदिदानी विभज्य वर्ण्यते कस्य कति गुणा इति, तत्र• गन्धादयो नियोक्तव्याश्चत्वारः पृथिवीगुणाः ।
अप्तेजोमरुतामेकं पूर्वपूर्वमपोह्य तु ।। गन्धवज रसरूपस्पर्शा अपां, रसवर्ज रूपस्पशौं तेजसः, रूपवर्ज स्पर्शाख्यः वायोरिति आकाशस्य तु गुणः शब्दः ।