________________
इन्द्रियपरीक्षा। नात् , वागिन्द्रियं तु सुतरामहृदयङ्गमं संयोगविभागनिर्वयों हि बाह्यः शब्द उपलभ्यते तद्भेदाश्च विद्यन्ते यादृशो भेरीदण्डसंयोगजः शब्दो न तादृशः कूर्मी. कोणसंयोगजः , एवं विचित्रस्थानकरणसंयोगाद्विचित्रो वर्णात्मकः शब्द उदे. तीति न वागिन्द्रियं नाम किं चित् , लोकश्च वाक्शब्देन वर्णात्मकंशब्दमेव व्यपदिशति शब्दश्चेन्द्रियविषयो नेन्द्रियम् , तस्मादनेकविधसुखदुःखोपभोगाक्षेपक्ष. मकर्मपरिणामनिर्मितमेतच्छरीरं तैस्तैरवयवैस्तं तं कर्मफलोपभोगमात्मनः स. म्पादयतीत्यलमेवंविधेन्द्रियजल्पनाऽऽजवेन ।
अन्त:करणत्रैविध्यखण्डनम् । अन्तः करणस्यापि, (१)वैविध्यमनुपपन्नमेकेन मनसैव पर्याप्त र्बुद्धिस्तु उपलब्धिस्वभावत्वात्करणकार्या न तु करणम् , अहङ्कारोऽपि ज्ञानविषय एव न करणम् , एतच सविस्तरं बुद्धिलक्षणे वक्ष्यामः, तस्मान्न त्रयोदशविध(२)। करणमिति सिद्धम् ।
न्यूनाधिकत्वशमनादत इन्द्रियाणि पञ्चैव बाह्यविषयाधिगमक्षमाणि । अन्तःसुखादिविषयग्रहणोपयोगि
षष्ठं मनस्तु कथयिष्यति सूत्रकारः ॥ तानि
पुंसो भवाब्धिपतिवस्य विवेकरत्नमानन्ददायि न हरन्ति तथा विधेयम् ॥
अर्थस्वरूपनिरूपणम् । गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ।
[गौ० १।१।१३ ] तदर्था इत्यत एवापकृष्य वा प्रक्रमाद्वा अर्था इति लक्ष्यपदं दर्शयितव्यम् , तदर्थ इति लक्षणम, तदिति प्रकृतेन्द्रियपरामर्शः, सामान्यलक्षणं तु पुनस्तदा। इत्येव योजनीयम् , तदिति प्राणादीनां विशेषसंख्यानिर्दिष्टानामवमर्शः, एवं च प्राणस्य विषयो गन्धः रसनस्य विषयो रसः इत्यादि विशेषलक्षणमुक्तं भवति,
(१) त्रैविध्यम्-सांख्या हि मनोऽहङ्कारचित्तमिति भेदेनान्तःकरणं त्रिवि. धमित्याहुः।
(२) त्रयोदशविधमिति । पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि त्रिविधमन्तःकरगमिति सालनया त्रयोदश करणानि ।