________________
५४
न्यायमर्याम् वजातेरेकत्वादिति चेत्तीन्द्रियत्वजातरेकत्वादेकमिन्द्रियं स्यात् , उच्यते चक्षुस्तावत्तेज इति निर्णीतम् , ततश्चैकमेव तदधिष्ठानमेकघाणवंशव्यवहितमनेकमिवोपलभ्यते, भिन्नं वा तद्भवतु तेजस्तत्कायॆक्यादाश्रयभेदेऽप्येकमेव, श्रोत्रमपि कर्णच्छिद्रद्वयानुस्यूतमेकमेव नभोदेशप्रायं वेदितव्यं कार्यकत्वस्यापि भावात् ,
तेनाधिष्ठानभेदेऽपि कार्यकत्वस्य दर्शनात् ।
तत्सामान्यस्य चैकत्वादेकत्वं श्रोत्रचक्षुषोः ।। न चेन्द्रियजातेरैक्यादेकमिन्द्रियम् , कार्यस्योपलब्धिलक्षणस्य कारणस्य पृ. थिव्यादेविषयस्य गन्धादेरधिष्ठानस्य त्रिपुटकादेर्गतेश्च घाणत्वादेर्जातिशब्दवाच्यस्य योनेर्वा पथिव्यादेः पचविधत्वात्पञ्चैवेन्द्रियाणि कल्प्यन्ते, यथा परमाणुसामान्याविशेषेऽपि पृथिव्यादिचतुर्विधकार्यदर्शनाचतुर्विधाः परमाणवः करुप्यन्त इति।
वागादीनामिन्द्रियत्वखण्डनम् । ननु तथाऽपि न पञ्चेन्द्रियाणि बुद्धीन्द्रियवत्कर्मेन्द्रियाणामपि पश्चानामुपसंख्येयत्वात , तदुक्तं वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः [ सां० का० २६11 तेषां च वचनादानविहरणोत्सगोनन्दात्मकपञ्चविधकार्यसाधनादिन्द्रि. यत्वं तत्कार्यस्यानितरेतरसाध्यत्वादिति ।
अत्राहु: अत्यल्पमिदमुच्यते पञ्च कर्मेन्द्रियाणीति, अन्यान्यपि खलु नसन्ति कर्मेन्द्रियाणि ? तथा हि कण्ठोऽन्ननिगरेण स्तनकलशालिङ्गनादिना वक्षो भारव. हनेन चांसद्वयमिन्द्रियमुच्यते न कथम् ? तत्कार्यस्य शरीरावयवान्तरेऽपि दर्श. नादिति चेत्किं नु भवानन्नपानं पाणिपादेन निगिरति पायुना वा ? आदानमपि किमास्यादिना वा न कुर्वते तिर्यञ्चो मनुष्या अपि हि क चित, असत्स्वपि भ. वत्कल्पितेषु कर्मेन्द्रियेषु तत्कार्य यावत्तावदन्यथाऽपि दृश्यते न त्वेवं बुद्धीन्दियेषु,
भवत्युत्पाटिताक्षस्य न मनागपि रूपधीः ।
ईषद्विहारादानादि दृष्टं यन्त्राध्रिपाणिषु ।। अपि च विहरणमपि न केवलं चरणयुगलकार्यम् अपितु जानूरुजवादिसहि-तपादसम्पाद्यमानमपि बाहुसहिताभ्यां पाणिभ्यामपि निर्वय॑ते न केवलाभ्याम . वागिन्द्रियं तु नाभेरूवं सर्वमेव स्यादित्याहु:-'वायुर्नाभेरुत्थित उरसि विस्तीर्णः कण्ठे विवतितो मूर्धानमाहत्य परावृत्तो वक्त्रे चरन्विविधान् शब्दानभिव्यनक्ति' इति , अस्ति चेहगनुभवो जल्पतां विशेषतस्त्वखण्डगेयं गायतामिति, एवं च कमेन्द्रियमयमेव विश्वमिति न च शरीरमिन्द्रियव्यतिरिक्तं किं चिद्भवेत् । अथ शरीरावरावेष्वेव भिन्नकार्यकारिषु कर्मेन्द्रियव्यवहारस्तर्हि कण्ठादिभिरतिप्रसङ्ग इत्युक्तम् , उपस्थेन्द्रियं च कथमेकं गण्यते तेनानन्दवन्मूत्रोत्सर्गस्यापि साध.