________________
इन्द्रियपरीक्षाः ।
न्द्रियं च कथं प्राहकमत इन्द्रियगुणानाम् अन्तःपतितत्वान्न प्रमेयत्वम्, तस्माद्भौतिकानीन्द्रियाणि स्वं स्वं विषयमुपलभन्त इति सिद्धम् । __प्रयोगस्तु-पार्थिवं घाणं द्रव्यत्वे सति रूपादिमध्ये गन्धस्यैव व्यजकत्वा. द् गन्धयुक्तद्रव्यवत्, तत्र व्यञ्जकत्वमात्र मनैकान्तिकमिति गन्धस्यैव विशेज्यते, सोऽयमसिद्धो हेतुर्भवेद् गन्धत्वस्यापि ब्राणव्यङ्गयत्वादिति रूपादिमध्य इत्युक्तम् , तथाऽपि सन्निकर्षेण व्यभिचार इति तद्वयुदासाय द्रव्यत्वे सतीति विशेषणम् , एवं रसनादिष्वपि प्रयोगा रचनीयाः, श्रोत्रं त्वाकाशैकदेश इति शब्दाधिकरणे निर्णीतम् , गन्धादिविषयोपलब्धिनिबन्धनसुखदुःखोपभोगहेतु.
भूतधर्माधर्मोपनिबद्धानां चेन्द्रियाणामिन्द्रियत्वमिति तशाद्यथा यथा नियत. . विषयग्रहणकारणता घेदते तथा कल्प्यते इति सर्वमनवद्यम् ।
* एकेन्द्रियवादिमतम् । आह भवन्तु भौतिकानीन्द्रियाणि पञ्चेति तु न युक्तमुक्तं त्वगेव ह्येकमिन्द्रियं भवितुमर्हति सर्वत्रानपायात् , करतलकपोलकण्ठादिवर्तिनापि त्वगिन्द्रियेण . रूपोपलम्भप्रसङ्ग इति चेद्, नावयवविशेषशक्तिविशेषनियमात् , न हि पाणिना पादेन वोपस्थकार्य ऋतुं शक्यते, अस्ति चावयवविशेषस्वभावविशेषवैचित्र्यम,
तुषारकर्पूरापूर्णवारिण्युत्तरमानसे । यथा च वृषणौ स्नातुः स्फुटतो न तथा स्फिचौ ।। क्लिन्नातृणकाष्ठादिधूमेन कटुना यथा ।
मूर्धाऽतिवेदनोदेति न तथाऽवयवान्तरे ॥ तस्मादवयवविशेषव्यवस्थितनानाशक्तिखचितं त्वगेवैकमिन्द्रियमिति । - एकेन्द्रियवादखण्डनम् ।
उच्यते, कुतोऽयमपूर्व एव महाप्राज्ञो वादी सरलमतीनस्मान्वञ्चयितुमागतः योऽवयव विशेष चाश्रयन्नप्येकमिन्द्रियं मन्यते शक्तिभेदादाश्रयभेदाच्च नानात्वमेवैतदिन्द्रियाणामित्यलं महात्मभिः सह कलहेन,
मनुष्यः सह संवादो मादृशानां हि शोभते । देवास्तु नररूपेण त इमे भान्ति वादिनः ।। ननु नानात्वपक्षेऽपि पञ्चत्वनियमः कथम् ।
द्वे श्रोत्रे चक्षुषी द्वे, च कथं ते एकमिन्द्रियम् ।। आह च-सव्यदृष्टस्येतरेण(१) प्रत्यभिज्ञानाद् [गौ० ३।१।७] इति, चक्षु.
(१) सव्येति । सव्येन चक्षुषा दृष्टस्य इतरेण दक्षिणेन चक्षुषा प्रत्यभिज्ञाना. स्थिरात्मसिद्धिरित्यर्थः । एवञ्च चक्षुषो द्वित्वमिति भावः ।