________________
न्यायमअर्याम् अत एव गोलकगुणदोषानुवर्तित्वमपि विषयोपलब्धेर्घटमानमाधारद्वारको हि तदाधेयस्यैव तौ गुणदोषाविति, तस्मादप्राप्तविषयग्रहणानुपपत्तोलकच. तःपक्षो भिक्षत्प्रेक्षित:(१) प्रेक्षावतां हृदयेषु न विश्राम्यतीति प्राप्यकारि तेज एव चारिति स्थितम् । इत्थं भौतिकेन्द्रियवादेऽपि प्राप्यकारित्वसिद्धर्न का पिलकथितमाहङ्कारिकत्वमिन्द्रियाणामुपपद्यते ।
इन्द्रियाणामाहङ्कारिकत्वखण्डनम् ! ननु पक्षद्वयेऽपि प्राप्यकारित्वोपपत्तेः कोऽयं भौतिकत्वं प्रत्यभिनिवेशाति शयो भवतामिति, उच्यते--एकप्रकृतित्वे हीन्द्रियाणामेकमेव सर्वविषयप्रका शनकुशलमिन्द्रियं भवेत्सर्वाणि वा सर्वविषयमाहीणि भवेयुः कारकस्याविशे. षात् , कारणनियमाधीनो हि कार्यनियमः अहङ्काराख्यं च कारणं, सकलवि. षयप्रकाशनशक्तियुक्ते तस्मिन् कथमन्द्रियान्तराणि विषयान्तरमाहीणि ततो भवेयुः, भौतिकत्वे तु भूतानां भेदान्नियतगुणोत्कर्षयोगित्वान्नियतविषयग्राहीन्द्रियप्रकृतित्वं तथा च प्रदीपादितेजो रूपरसाधनेकविषयसन्निधानेऽपि रूपस्यैव प्रकाशीभवितुमर्हति एवमन्द्रियान्तरेष्वपि वक्तव्यम् , तदेष विषयनियमः प्रकृतिनियमकारित इन्द्रियाणामिति भौतिकानीन्द्रियाणि । ___ यत्त्वेवं तैजसेन चक्षुषा कथं पार्थिवस्य रूपस्य ग्रहणं पृथिव्या एव वा,
आप्येन च रसनेन पार्थिवस्य रसस्य, वायवीयेन स्पर्शनेन्दियेण च पृथिव्या. दिस्पर्शस्य तदिदं प्रकृतिनियमेऽपि कथं विषयसाकर्यमिति ? नैष दोषो रूपादि विषयविषयोऽपि ह्येषां नियमो न तदाश्रयविषयः, तैजसं हि प्रदीपादिद्रव्यं रूपमेव प्रकाशयदृश्यते न तेजोवृत्त्येव रूपम् , आप्यमपि द्रव्यं रसमेव व्यनक्ति न तु सलिलस्थमेवेति, घ्राणे तु न कश्चिद्दोषः तद्ग्राह्यस्य तस्य पृथिव्येकवृत्तित्वादिति, द्रव्यस्यापि दर्शनस्पर्शनग्राह्यत्वमविरुद्धमित्थं भौतिकत्वेऽपीति, यदुक्तं महदणुग्रहणाचाभौतिकानीन्द्रियाणीति, तन्न, दूरप्रसारित्वस्य दर्शितत्वात् ततश्च विततत्वाद्विततग्राहि भवत्येव, विततत्वेनापि नाहङ्कारिकत्वम् ।
यत्पुनरभ्यधायि भौतिकत्वे परगुणवत्स्वगुणस्यापि प्रकाशकमिन्द्रियं स्या. दिति, तदयुक्तं सगुणस्येन्द्रियस्येन्द्रियभावात् , इन्द्रियेण हि सता तेन विषयः परिच्छिद्यते सगुणस्य चास्येन्द्रियत्वं स्वगुणरहितं तदिन्द्रियमेव न स्यादनि.
(१) भिक्षुत्प्रेक्षिता-बौद्धकल्पितः । तेषामयमाशयः चक्षुर्हि विषयसन्निकर्ष रहितमेव ग्राहकम् , यदि प्राप्यप्रकाशकारि स्यात् तदा रखनादिवदधिष्ठानसम्बद्धं गृह्णीयात् न चैवं गोलकासम्बद्ध ग्रहणात्, किञ्च यदि चक्षुः प्राप्य गृहीयात्तहि स्वतोऽधिकपरिमाणं न गृह्णीयात, एवञ्च प्राप्यकारित्वानुरोधेन गोलकातिरिक्तञ्चक्षुः परैरङ्गीक्रियते तदेव नास्तीति गोलकमेव चक्षुरिति ।