________________
इन्द्रिय परीक्षा ।
स्येति । तेजोद्रव्येण च निरर्गलं(१) विजम्भमाणेन भूयसा ग्रीष्मो भवति तत्र सत्यपि तेजोद्रव्ये तद्गुणस्योष्णस्पर्शस्यैव ग्रहणं न भास्वररूपस्येति, भास्वरं. च कार्तस्वरादौ तैजसद्रव्ये रूपमुपलभ्यते नोष्णस्पर्शः, उदकान्तर्गते च तेजसि ज्वलनतप्ते जले ज्वलनगुण उष्णस्पर्शोऽनुभूयते न भास्वरं रूपमिति, एव. मिह नयनरश्मी तैजसे द्रव्ये द्वावपि रूपस्पर्शी नोपलभ्यते इति कमुपालभे. महि, उक्तं च-(२)दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः प्रमाणस्य तत्वविषयत्वादिति [गौ०३-१-५३] | न च सर्वत्र नयनरश्मरनुपलम्भः क चिद्धि वृषदंशप्रभृतीनां (३)नक्तञ्चराणां निशि निबिडतमतमःपङ्कपटलावलिप्ते वेश्मनि सञ्चरतां चाक्षुषं तेजो भास्वरं रूपं दूरमपि प्रसरदुपलभ्यत एव, अ. न्यत्र तु मध्यन्दिनारकाप्रकाशवदग्रहणमस्मदादिनयनरश्मे:, अयं तु विशेषः उल्कारूपस्य दिवा दिवाकरकरविभवाभिभूतत्वादग्रहणं नयनरश्मिरूपस्य त्व. नुद्भुतत्वादेवेति।
यत्त काचाभ्रपटलस्फटिकान्तरितपदार्थोपलम्भनं तत्र काचादीनां केषांचिदतिस्वच्छत्वात्केषांचिच ससुषिरत्वाचाक्षुषतेजःप्रसरनिरोधकौशलं नास्तीति प्राप्यकारित्वं चक्षुषस्तावता भवति । । __यत्तु कुतो नयनरश्मेरियती गतिर्गगनमाक्रम्य यद्गभस्तिमालिनं स्पृशति न प्रतिहन्यते च सावित्रेण वेगवता तेजसेति, उक्तमत्र दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिरिति, कार्यसत्तया हि तथाविधं कारणं कल्प्यते यद् दूरमपि प्रसरति प्रसरदपि परेण न च निरुध्यते, दृष्टश्चानिरोधो भर्जनकपालादौ तेजसः पच्यमानद्रव्यपाकसिद्धेः कलशे च निषिक्तानामपां बहिः शीतस्पर्शग्रहणादनिरोधः, एवं नयनरश्मेरपि भविष्यति, न तु गोलकस्यैव शक्तिकल्पना लध्वीति वक्तव्यम् , प्राप्यकारित्वव्याघातादिति, अत एव सर्वेन्द्रियाणां प्राप्यकारित्वं पश्यद्भिः शास्त्रज्ञैरिन्द्रियार्थसन्निकर्षः षट्प्रकारो व्याख्यातः, प्राप्यकारिता च न गोलकस्योपपद्यते तदप्राप्तस्य पर्वतादेग्रहणात्तत्प्राप्तस्य च प्रत्युतासनशलाकादेरग्रहणादगोलकं चक्षुः,
चिकित्सादिप्रयोगस्तु गोलके यः प्रवर्तते । सोऽयमाधारसंस्कार आधेयस्योपकारकः ।।
(१) निरर्गलं-मिष्प्रतिबन्धम् ।
(२) दृष्टानुमितानामिति । दृष्टानामनुमितानां वा पदार्थानाम् 'एवं भवतः इति नियोगः 'एवं मा भवत' इति प्रतिषेधो वा नोपपद्यते तथाभूतविषयकं हि प्रमा. णमित्यर्थः।
(३) वृषदंशो-विडालः ।