________________
न्यायमअर्याम् ननु च प्राप्यकारित्वमेव चिन्त्यं वर्तते तद्धि रसनस्पर्शनयोः केवलमवलोक्यते लोके चक्षुःश्रोत्रे तु दूरदेशव्यवस्थितविषयग्राहिणी कथं प्राप्यकारिणी स्याताम् घाणे तु त्रिपुटिकानिकटनिहितपदार्थगन्धमपि गृह्णाति दूरतोऽपि च प्रचलदनिलबलवेल्लितफुल्लमल्लिकादिसौरभमुपलभते त्रिपुटिकोपकण्ठढौकितेनापि द्रव्येण न तस्य सन्निकर्ष इति तदप्यप्राप्यकार्येव, तस्माच्छक्तिविशेषणमधिष्ठानमेव तत्तदिन्द्रियमिति गृह्यताम् उत्सृज्यतां प्राप्यकारित्वपक्षः चक्षुषि च चन्द्रार्कग्रहादिग्राहिणि नतरां प्राप्यकारित्वमित्युक्तमेव । ___ अत्रोच्यते न प्राप्यकारित्वमुत्स्रष्टुं शक्नुमः कारकत्वमेव हि तथा स. त्येषामुत्सजेम, कारकं चाप्राप्यकारि चेति चित्रम् , अदृष्टमपि कारणमा. त्मनो व्यापकत्वात्तवृत्ति धमोदिकं न प्राप्यकारि भवेत् किमुत दृष्टं चक्षुरादि कारकमिति, अप्राप्यकारित्वे च शक्तेरविशेषात्कुड्यादिव्यवहितमपि वस्तु चक्षु. षा दृश्येत, तत्र कार्यानुपलम्भान्न शक्तिः कल्प्यते इति चेत् , किं शक्तिः कल्प्यता किं तेज इति सम्प्रधारणायां(१) तेजसो द्रव्यत्वाद्वयवधानाद्यनुगुणममूर्तीयास्तु शक्तेर्व्यवधानमबाधकं भवेदिति तेज एवेन्द्रियं कल्पनीयं न शक्तिः, शक्ति. मदधिष्ठानं वा, प्राप्यकारिता च श्रोत्रस्य तावद्देशसन्तानसदृशशब्दपरम्परारम्भणद्वारेण दर्शिता शब्दाधिकरणे, प्राणस्यापि समीरणान्दोलितकुन्दलता. दिप्रसततत्परमाणुनिकराधिकरणगन्धग्रहणात्प्राप्यकारिता, न च परमाणप. सर्पणाद् द्रव्यपरिक्षयाद्याशङ्कनीयं भूयस्त्वात्परमाणूनाम् , अत एव(२) गन्धद्वारकतव्यसम्पर्कदोषनिहरणाय प्रायश्चित्तमशुचिद्रव्यघ्राणे समामनन्ति, चक्षुषस्तेज:प्रसरणात्प्राप्यकारिता, अनुपलभ्यमानं तेज इति चेत्किं चन्द्रमस: परभाग उपलभ्यते पृथिव्याश्चाधोभागः, न खलु प्रत्यकशरणाः पदार्थाः अनुमानादिभिरेषामुपलम्भः सम्भवत्येव, उक्तं चानुमान रूपोपलब्धिकायेंण तैजसमेव चक्षुरनुमीयते, तेजोद्रव्यं हि दीपादि रूपस्य प्रकाशकं दृष्टमिति ।
प्रत्यक्षेण तु नायनं तेजः किमिति नोपलभ्यते इति ? तदुच्यते विचित्रा हि द्रव्यगुणानामुद्भवाभिभवादिवशेन गतयो भवन्ति, तद्यथा सर्वतः प्रसरता धवलबहलेन शीतस्पर्शाश्रयेण द्रव्येण · व्याप्तौ हेमन्तशिशिरौ ऋतु भवतः, निराधारस्य शीतस्पर्शगुणस्यानुपपत्तेः ।।
अथ सत्यपि तत्र सलिलद्रव्ये तद्गुणस्य शीतस्पर्शस्यैवोपलब्धिर्न शुक्लरूप
(१) सम्प्रधारणायां-विचारणायाम् ।
(२) अत एवेति । घ्राणेन गन्धग्रहणाय गन्धवदव्यस्य वायुनाऽऽनयनाङ्गी. कारादशुचिद्रव्यल्पर्श इति तदोषनिहरणाय प्रायश्चित्तं धर्मशास्त्रविहितं सङ्गच्छत इति भावः ।