________________
४९
इन्द्रियपरीक्षा। एवं भौतिकानीन्द्रियाणि स्वं स्वं विषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां सिध्यतीति अतो भूतेभ्य इत्युक्तम् ।
सावयमतेनेन्द्रियाणामाहङ्कारिकत्वम् । तत्रैतत्परीक्षणीयं वर्तते किं भौतिकानामिन्द्रियाणां स्वविषयग्रहणकरणत्वमुतान्यथेति, एवं हि साङ्ख्याः सम्प्रवदन्ते आहङ्कारिकाणीन्द्रियाण्यर्थ साधयितुमर्हन्ति नान्यथा, तथा हि कारकं कारकत्वादेव प्राप्यकारि भवति भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये भवेयुः आहङ्कारिकाणां तु तेषां व्यापकत्वाद्विषयाकारपरिणामात्मिका वृत्तिवृत्तिमतो नान्या सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम् , अपि च महदणुग्रहणमाहङ्कारिकत्वे तेषां कल्पते न भौतिकत्वे, भौतिकत्वे हि यत्परिमाणं ग्रहणं तत्परिमाणं ग्राह्यं गृह्णीयादस्ति च गोलकादधिकपरिमाणस्य पटपिठरादेर्ग्रहणं हीनपरिमाणस्य च वटधानादेरतोऽपि न भौतिकानीन्द्रियाणि, भौतिकानामपि दीपादीनां परं प्रकाशयतां स्वात्मप्रकाशकत्वमपि दृष्टम् , एवमिन्द्रयाण्यपि पटादिरूपं प्रकाशयन्ति स्वरूपमपि च प्रकाशयन्तीत्यतोऽपि न भोतिकानि ।
भौतिकत्वेपीन्द्रियाणां प्राप्यकारित्वम् ।। अत्राभिधीयते-यत्तावत्प्राप्यकारित्वं भौतिकत्वपक्षे नावकल्पते इति जल्पितवानसि तन्मन्ये त्वया गोलकमेव चक्षुरिति चेतसि गृहीतमन्यथा कथ. मित्थमकथयिष्यः, स चायमायुष्मतो महान् भ्रमः न खलु कृष्णसारं चक्षुस्तदधिकरणं तु तेजश्चक्षुस्तच्च वेगवदव्यत्वाद् दूरमपि प्रसरतीति कोऽस्य प्रा. प्यकारितायां प्रमादः। ____ननु च गोलके चिकित्सादिप्रयोगाद्गोलकगुणदोषानुवर्तित्वाच विषयोपलब्धेगालकमेव चक्षुः स्याद् अनुपलभ्यमानं च तेजः कथमिन्द्रियमुच्यते, कथं च तेजसा वेगवताऽपि सहसैव विस्फारिते चक्षुषि योजनशतसहस्रव्यवहितसितकरतरणितारकादि ग्रहीतुं शक्येत, कथं वा तदल्पकं वराकं नायनं तेजः समन्ततः प्रसरता सकलभुवनप्रथितप्रभावन महीयसापि मिहिरमहसा न प्रतिहतगति भवेदभ्यर्थमिति भास्करदर्शनमित्थं न सम्पद्यत, तेज:पक्षे च काचा. भ्रकपटबालस्फटिकान्तरितपदार्थोंपलब्धिः कथं समयंत तत्प्रतिबद्धं हि तेजः कथं प्रतिष्ठेतेति तद्वरं शक्तिविशेषयुक्तं गोलकमेव साधो ! चक्षुरभ्युपगच्छेति ।
उच्यते-न खलु भवदनुशासनेन युक्तिविरुद्धपक्षमभ्युपगच्छामः प्राप्यकारि हि कारकं दृष्टं कृष्णसारपक्षे च कुतः प्राप्यकारित्वम् ? शक्तिरपि कल्यमाना निराश्रया न परिकल्पनीयैवेति तदाश्रयचिन्तायां न गोलकमात्रमाश्रयोक्तराश्रयो भवेत् ।