SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४८ न्यायमअर्याम् इन्द्रियपरीक्षा। . घाणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि । भूतेभ्यः ॥ ( गौ० १ ० १ आ० १२ सू०) अत्रेन्द्रियाणां विषयोपलब्धिकारणत्वं सामान्यलक्षणं प्रसिद्धमेव विभा. गोऽपि पञ्चबायेन्द्रियाणां त्वेष सूत्रित एव स चानन्तरमेव, तीर्थान्तरकथित. कर्मेन्द्रियनिषेधात्साधयिष्यते । विशेषलक्षणानि तु पञ्चानां पञ्च समाख्यानिर्वचनसामर्थ्यात्प्रमाणवदवगन्तव्यानि । जिघ्रत्यनेनेति घ्राणं प्रेयं गृह्णातीति गन्धोपलब्धावसाधारणं क. रणं घ्राणं, चक्षुः ईक्षणं लोचनं तदुच्यते, स्पृशत्यनेन स्पर्शनं स्पर्श गृह्णातीति स्पॉपलब्धावसाधारणं कारणं स्पर्शनं, स्पर्शनमिति वक्तव्ये त्वग्ग्रहणमुपचा. रान्मश्चाः क्रोशन्तीति तदधिष्ठानत्वं दर्शयितुम्-यथा त्रिपुटिकाधिष्ठानं घ्राणं जिह्वाधिष्ठानं रसनं गोलकाधिष्ठानं चक्षुः तथा सकलत्वगधिष्ठानं स्पर्शनं शि. रःप्रभृत्यापादाङ्गुष्ठं स्पर्शोपलम्भात् , त्वगिति च न बाह्यमेव चर्म केवलमुच्यते अपि तु सकल शरीरव्यापि तुहिनकणशिशिरसलिलपानसमयेन्तहृदयेऽपि शी. तस्पॉपलम्भादिति, स्वावयवसमवायित्वे चेन्द्रियाणां त्रिपुटिकाद्याश्रयत्व. माश्रयमात्रापेक्षयोच्यते न समवायित्वादिति, शृणोत्यनेनेति श्रोत्रं शब्दं गृहातीति शब्दोपलब्धावसाधारणं करणं श्रोत्रम् , तच्चाकाशैकदेशत्वादनाश्रितमपि कणशष्कुल्यधिष्ठानमुच्यते, तदेवं विशेषणलक्षणानि पञ्च पञ्चानामुक्तानि, भवन्ति तानीमानीन्द्रियाणि स्वविषयग्रहणलक्षणान्यात्मनो भोगसाधनत्वात्संसारकारणानीति हेय तया भावयितव्यानि, तथा भाव्यमानानि निवेदोत्पादनादिद्वारेणापवर्गाय कल्पिष्यन्ते इति । भूतेभ्य इति किमर्थम् ? :उक्तं हीन्द्रियाणां स्वविषयग्रहणं भूतप्रकृतित्वे सति निर्वहति नान्यथेति तत्तद्विनिश्चयार्थ यथाप्तोपदेशः शब्द इत्याप्तग्रहणम् । विषयोपलब्धिलक्षणत्वं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति नान्यथेति, तानि पुनरिन्द्रियकारणानि पृथिव्यप्तेजोवायुराकाशमिति भूतानि, भूतेभ्यः प. ञ्चभ्यो यथासङ्घयं घ्राणरसनचक्षुस्त्वकश्रोत्राणि पञ्चेन्द्रियाणि भवन्ति भूतप्र. कृतित्वमिति भूतस्वभावत्वं व्याख्यावसानम् (दिवादिभ्यो भूतेभ्यः सम्भवति त. दवनतौ पञ्चस्वपि सम्भवति)(१) भूतकारणकत्वं त्वन्येषु चतुष्वपि तथैव श्रोत्रं तु कथञ्चित्कर्णशकुल्यवच्छिन्ननभोभोगाभिप्रायेण व्यवहारतः समर्थनीयम (१) अयं पाठः कथञ्चिदपि न समन्वेतीति व्यर्थ एवेति बोध्यम् ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy