________________
शरीरपरीक्षाः।
शरीरपरीक्षार्थ विप्रतिपत्तयः । तत्र पार्थिवमेवास्मदादिशरीरमिति के चित, साधारणो हि धरणिधर्मों ग. न्धस्तस्मिन्नुपलभ्यते इति।
पृथिव्युदककारणमित्यन्ये, क्लेदस्यापि तस्मिन्दर्शनादसति हि सलिलसं. सगें न पार्थिवाः क्लेदमनुभवन्तीति ।
क्षितिजलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलम्भादिति,
वसुमतीसलिलसितेतरसरणिसमीरणरचितमिति चान्ये, रचनाविशेषस्य पवनकार्यस्य तत्रावधारणादिति।
अवनि(१)वनदहनपवनगगनविनिर्मितमिति चापरे, गन्धादिवदवकाशस्याप्याकाशकार्यस्य तत्र दर्शनात्सुषिरं हि शरीरमुपलभ्यते अवकाशे चाकाशैकदे. शेऽप्यवच्छेदाभिप्रायेण श्रोत्रवद्न्या तत्कार्यत्वव्यपदेश इति ।
शरीरस्य पार्थिवत्वम् । तदत्र किं तत्त्वं पार्थिवमेवास्मदादिशरीरमिति विजातीयकार्यस्यावयवि. नोपपत्तेः, पार्थिवावयवसमवेतशरीरावयवग्राहिणश्चाभेदप्रत्ययस्य तृणपर्णपाषाणमूलकाद्यभेदप्रत्ययवदपवादासम्भवात् , न च वयमिह भूतान्तराणां कार. णभावनिषेधं विद्मः केवलपार्थिवतया निर्विवादसिद्धेऽपि कुम्भादावम्भःप्रभृ. तीनां कारणत्वानपायात्तव्यतिरेकेण घटादेर्घटयितुमशक्यत्वात् , किन्तु घट. इव शरीरेऽपि समवायिकारणतां पृथिव्यवयवानामेवाचक्ष्महे तदाश्रितत्वस्थास्य प्रत्यक्षेण ग्रहात्सहकारिकारणत्वानुप्रविष्टभूतान्तरसम्बन्धनिबन्धनस्ततः सि. द्धः क्लेदोष्मव्यूहावकाशसम्प्रत्ययस्तत्पथागमपठितेषु वरुणलोकादो केवलजलादिजन्येषु सहकारित्वानुप्रविष्टपार्थिवावयवावष्टम्भवशेन स्थैर्याधुपलम्भ इति , तस्मादस्मदादिशरीरं पार्थिवम् ।।
वेदे च(२) तथैव व्यवहारो दृश्यते अग्नीषोमीयादिपशोः प्रलयकाले यजमा. नस्य वा प्रेतस्य[३] पात्रचयनकर्मणि 'सूर्य चक्षुर्गमयतादि'त्याधुपक्रम्य 'पृथिवी ते शरीरमि'ति पठ्यते, तच्च प्रकृतिगामित्ववचनं यद्यतः प्रकृतेरुत्थितं तत्तस्यामे. वास्य लीयतामित्यर्थः । तत्र यथा तैजसं चक्षुरिति सूर्याख्ये तेजसि उद्गमनमुपदिष्टमेवं पृथिव्यां शरीरस्येति तस्मात्पृथिव्यवयवैरयमस्मदादिदेहो निबद्ध इति नात्र सतां विवादः।
(१) अवनिः पृथ्वी, वनं-जलं, दहन:-अमिः । (२) वेदे च-वेदेपीत्यर्थः। (३) प्रेतस्य-मृतस्य ।