________________
न्यायमअर्याम् भेकादिशरीराणि नितरां निवेदकारीणि भवन्ति, मुमुक्षुरपि च कर्मविपाकमनेकप्रकारमाकलयन्मण्डूकीभावमात्मनोऽपि न शङ्कते प्रत्यासन्नापवर्गपुरप्रवेशविपश्चित्तममपश्चिमजन्मानं मुमुक्षु प्रति लक्षणाद्युपदेश एव कोपयुज्यते इत्यतः पूर्वोक्त एवाव्याप्तिपरिहारः श्रेयान् । । भवत्वेवं चेष्टाश्रयत्वं शरीरलक्षणम् इन्द्रियाश्रयत्वं तु कथम् ? भौतिकानि हीन्द्रियाणि स्वावयवसमाश्रितानि घाणनयनस्पर्शनरसनानि, श्रोत्रमनसी तु नित्यद्रव्यत्वादनाश्रिते एवेति कथमिन्द्रियाश्रयता शरीरस्येति,
उच्यते नात्राधाराधेयभाव आश्रयार्थः किन्तु तदनुग्राह्यत्वात्तदाश्रितानीन्द्रियाण्युच्यन्ते, देशकालदशानुकूलपथ्यभोजनाभ्यङ्गव्यायाममर्दनाभ्युपचारोपचितशरीरस्य हि पुंसः पटुतराणि स्वविषयपुरन्ध्रिग्रहणे भवन्तीन्द्रियाणि दी. घोध्वलङ्घनकदशनशुष्कजरत्सचन्द्रसेवनादिक्लिष्टशरीरस्य हि पुंसो मन्दशक्तीनि भवन्तीति तदनुग्राहकत्वादिन्द्रियाणामाश्रयः शरीरम् ।
अर्थानांतु रूपरसगन्धादीनां केषां चिदाश्रयः शरीरं भवत्येव तत्समवायिनां न तु तावता किं.चिद्भोगायतनत्वोपयोगि रूपमभिहितं भवति । लक्षणमपि त. दतिव्यापक रूपरसादिसमवायस्य वृक्षादावपि भावात्तस्मात्तदर्थाश्रयत्वमीडश. मत्र विवक्षितं यदेते वरवनितादिशरीरवर्तिनः, (१)प्रविकचमुचुकुन्दकुन्दकन्दल. कमलादिबाह्यविषयसमवायिनश्च रूपरसादयोऽथा रमणीयतामादधाना रागवृ. द्विहेतवो भवन्ति भोक्तरात्मनः शरीरे सति न शरीररहितस्येत्यर्थानां भोगसा. धनभावादाश्रयः शरीरमतः सुष्ठुक्तं चेष्टेन्द्रियार्थाश्रयः शरीरमिति, तदित्थं भो. गायतनत्वेन बन्धहेतुत्वाद्धयमित्यर्थः ।
शरीरपरीक्षा । तदिदानीमस्मदादिशरीरं किं पार्थिवमेव किं वा नानाभूतनिर्मितमिति परी. क्यते, ननु किमनया परीक्षया प्रयोजनम् ।
निःश्रेयसोपयोगो हि यः शरीरस्य दर्शितः ।
नानकप्रकृतत्वे हि न स तस्य विशिष्यते । मैवं वोचः
प्रतिपन्नम्वरूपस्य चिन्त्याकारोपयोगिता । ___ कार्यः कार्यार्थिनाऽप्यादौ यत्नस्तद्पनिर्णये ।।
तथा चेन्द्रियाणि भौतिकत्वाहङ्कारिकत्वविवेकेन परीक्षिष्यन्ते, अर्था अपि कति किंगुणा इति, बुद्धिरपि किं प्रधानस्य प्रथमो विकारा महच्छब्दवाच्य. उतात्मन एव धों ज्ञानाख्यः क्षणिक इत्येवं द्रष्टव्यम् ।
(१) प्रविकचमुचुकुन्द-विकसितपुष्पविशेषत्यर्थः ।