________________
शरीरपरीक्षाः । तेनानादिप्रबन्धोपचितपरिणमत्कर्मपाकोपनीतं दुःखं संत्यज्य निःश्रेयसमखिलभयाऽतीतमाप्तुं यतेत ॥ इति श्रीजयन्तकृतौ न्यायमञ्ज- सप्तममाह्निकम् ॥ ........
शरीरनिरूपणम् । आत्मानन्तरं विभागसूत्रे शरीरनिर्देशात्तदनुक्रमेण तत्स्वरूपनिरूपणार्थमाहचेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ (गौ० अ० १ आ० सू० ११)
शरीरस्य यल्लक्षणं येन च रूपेण भाव्यमानस्यापवर्गोपयोगिता तदुभय. मपि प्रतिपाद्यते, तत्र शरीरत्वमेव तावत्प्रथमं शरीरस्य लक्षणं तेन हि समा. नासमानजातीयेभ्यस्तद् व्यवच्छिद्यते , तस्मिन्सत्यपि चेष्टेन्द्रियार्थाश्रयत्वं य. दस्य लक्षणमुच्यते तत्तन रूपेणात्मनो भोगायतनं शरीरमिति ज्ञापयितुम् , चेष्टेन्द्रियार्थाश्रयतया हि शरीरमात्मना भोगायतनं भवति मुमुक्षणा च सुख. दुःखोपभोगरहितात्मतस्वस्वभावनिःश्रेयसाधिगमविनिहितमनसा तथा भोगा. धिष्ठानतया शरीरं भावयता तत्परिहरणे यत्नः कार्य इत्याचार्यश्चेष्टेन्द्रियार्थाश्रयत्वमस्य लक्षणमुक्तवान् ।
ननु चेष्टा क्रिया क्रियाश्रयत्वे च सत्यपि न वृक्षादीनां शरीरत्वमित्यतिव्याप. कं लक्षणम् ,नविशिष्टचेष्टाश्रयत्वस्य (१)विशिष्टप्रमेयलक्षणप्रक्रमतोऽवसीयमानत्वात , हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणं शरीरमुच्यते न चेष्टामात्रस्याधिष्ठानम् , रथादिनाऽपि नातिव्याप्तिर्यथोक्तप्रक्रमवशा(२)देवान्येन प्रेरणाया- . मसत्यामिति विशेषलाभात् , आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षहिताहितोपादा.' नपरित्यागोपाधिकचेष्टाविशेषाश्रयः शरीरमित्यर्थः, ननु पाषाणान्तर्गतमण्डू. कादिशरीरेषु तदाश्रयत्वादर्शनादव्याप्तिः, न योग्यतायास्तत्रापि भावात् , स. त्यामपि क्रियायोग्यतायां सर्वतो निर्विवरनिचितहषत्कर्परोपरुद्धावकाशतया च., लितुमसोन प्रभवति भेको वराकः, तथा च स्फुटिते तस्मिन्नेवाश्मनि तत्क्षण. मेवासो चलन दृश्यते इति निबिडपाशसंयतशरीरवत्तदानी चेष्टाया अदर्शनेऽपि नाव्याप्तिः।
मुमुक्षशरीरमेव लच्यतामित्येके-तेन न मण्डूकशरीरादिभिरव्याप्तिरल. क्षणीयत्वात्तेषामिति, तदयुक्तं नियतस्य मुमुक्षूणांशरीरस्याभावात् , ताशि च
(१) विशिष्टचेष्टाश्रयत्वस्य-हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणत्व रूपस्य।
(२) यथोक्तप्रक्रमवशात्-प्रकरणवशात् अन्येन प्रेरणायामसत्या हिताहितप्राप्ति परिहारयोग्यव्यापाराधिकरण शरीरलक्षणं पर्यवसन्नमित्यर्थः ।..