________________
न्यायमअर्याम् तस्मात्कल्प्यानि कर्माणि दृष्टकार्योपपत्तये। एवं च क्षणभङ्गित्वात्संस्कारद्वारिका स्थितिः । स कर्मजन्यसंस्कारो धर्माधर्मगिरोच्यते ।
नित्यात्मसाधनम् । विना च नित्यमात्मानं क धर्माधर्मयाः स्थितिः ।। नित्यस्तस्माद्भवति पुरुषः स्वप्रणीतानुगच्छधर्माधर्मक्रमपरिणतानन्ततापोपभोगः । प्रामाण्यं च स्फुटमभिहितं पूर्वमेवागमानांतेभ्योऽप्यात्मा जनननिधनातीततत्त्वः प्रसिद्धः ।। [१]यद्विज्ञानधनादिवेदवचनं तत्पूर्वपक्षे स्थितं. पौर्वापर्यविमर्शशून्यहृदयैः सोऽर्थों गृहीतस्तदा। मैत्रय्या परिचोदितस्तु भगवान्यद्याज्ञवल्क्योऽब्रवी
दात्मा नैव विनश्यतीति तदिदं सिद्धान्तसारं वचः ।। तेनात्मनित्यत्वसमर्थनेन सुस्पष्टसिद्धः परलोकमार्गः। य एव देहान्तरसङ्गमोऽस्य तमेव तज्ज्ञाः परलोकमाहुः ।।
इति कवलने मांस्पाकानां परस्वपरिग्रहे कितवजनतागोष्ठयां वेश्यामुखाम्बुजचुम्बने। गतमतिरभूद् धूर्तों मत्वा भवान्तरनास्तितां
तदयमधुना तत्संसिद्धरहो बत दूयते ॥ (२)तस्मान्नित्योऽयमात्मा न च कलुषफलस्तस्य नैसर्गिकोऽयं
रागद्वेषादियोगोऽपि तु सकलगुणापोढमेवास्य रूपम् । (१) बृहदारण्यके ( ४-अ ६ ब्रा०) याज्ञवल्क्यस्य द्वे. भाव्य मैत्रेयी कात्या. यनी च तत्र मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यो यदेव भगवान् वेद तव मे विहिः इति पृष्टवती ततः स यथा सैन्धवधनोऽनन्तरोऽबाह्यः कुरस्नो रसघन एवैः वा.
रेऽहमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानधन एवैतेश्यो भूतेभ्यः समुत्थाय तान्ये. पान विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमोति होवाच याज्ञवल्क्यः' इति एतन्मूलक एव देहात्मवादपक्षः स च पूर्वपक्षभूतः, सिद्धान्तस्तु सा होवाच मैनेय्यत्रैव माभग बान्मोहान्तमापीपन्नवा अहमिमं विजानामीति स होवाच न वा अरेऽहं मोहबधीम्य विनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा' इति । तदेवाह-यद्विज्ञानधनादीति ।
. (२) तस्मादिति । आत्मा नित्यः तस्य कलुषफलः दुःखादिफल: रागद्वेषा. दियोगः नैसर्गिकः स्वाभाविको न किन्तु अस्य आत्मनः सकलगुणापोळे सकगुणर. हितमेव रूपमस्ति तेन अनादिप्रबन्धेन अनादिसंसारप्रवाहेण उपचितो जायमानः परि. णमन् यः कर्मपाकः तेनोपचितं दुखं त्यक्त्वा सर्वभयरहितं निःश्रेयसमाप्तुं यतेत्यर्थः ।