________________
आत्मनित्यत्वोपसंहारः ।
ज्वलद्विषानलज्वालाजालपल्लविताननाः ॥ जगतो यश्च वैचित्र्यं सुखदुःखादिभेदतः । कृषिसेवादिसाम्येऽपि विलक्षणफलोदयः || अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्य चित् । क्वचित्फलमयत्नेऽपि यत्नेऽप्यफलता के चित् ॥ तदेतद् दुर्घटं दृष्टात्कारणाद्व्यभिचारिणः । तेनादृष्टमुपेतव्यमस्य किं चन कारणम् ॥ श्रदृष्टो भूतधर्मस्तु जगद्वैचित्र्यकारणम् । यदि कश्चिदुपेयेत को दोषः कर्मकल्पने । संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् । भूतवद्भूतधर्मस्य न चादृश्यत्वसम्भवः ॥ दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः । विशेषो वीर्यविज्ञानसौभाग्यारोग्यसम्पदाम् || स्वाभाविकत्वं कार्याणामधुनैव निराकृतम् । तस्मात्कर्मभ्य एवैष विचित्रजगदुद्भवः ॥ कर्मणां यदि वैचित्र्यं कर्मान्तरकृतं यदि । अनिष्टं तत्स्वतः सिद्धं जगत्येव तदिष्यताम् ॥ कर्मणां शास्त्रतो ज्ञाता विचित्र फलशक्तता । दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षतोऽपि सा ॥ तस्माद् दृष्टस्य कार्यस्य युक्ता कारणकल्पना | कारणस्य त्वदृष्टत्वात्किं हेत्वन्तरचिन्तया || हेत्वन्तरनिमित्तेऽपि कर्मवैचित्र्यकल्पने । संसारस्य त्वनादित्वान्नानवस्था भयावहा ॥ तथा च पुण्यः पुण्येन पापः पापेन कर्मणा । जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते ॥
तथा च गौतमः । पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति (१) । तस्मात्कुतर्कमूलेन दृष्टकार्योपघातिना ।
सर्वलोकविरुद्धेन चोद्येन ( २ ) कृतमीदृशा ॥
४३
(१) अत एव - 'तय इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमाधेरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्वयोनिं वाऽथ य इह कपूयचरणा अभ्याशोह
कपूय योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा' इति ( छा० - १० - ० ) पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' ( वृ० ३-२-१३ ) ति श्रुतिरपि । (२) कृतम् - व्यर्थम् ।