________________
४३
न्यायमअर्याम् ना(१) विकासकारणं तरणिकिरणनिकरपरिष्वङ्गाद्युपलब्धम् इति तदपि न खाभाविकम् ,
तस्मान्मुखविकासस्य हर्षों हर्षस्य च स्मृतिः । - स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ।। • ननु शिशार्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसङ्गः, न यावत्कार्य कारणकल्पनान्न सर्वदा सर्वस्मरणं संवेद्यते न च तत्कल्पनायां कारणमुपलभ्य. ते न चैकदर्शनात्सर्वं कल्प्यं दृष्टमपि वा निह्रोतव्यमिति परीक्षकाणामुचित. एव पन्था इत्यसकृदुक्तम् ,
अपि च पयसस्तृप्तिहेतुत्वमनुस्मरन्बालकः स्तन्याभिलाषेण मातुः स्तनतटे दृष्टिं निदधाति न चाद्य तेन तस्य तत्साधनत्वमवगतमिति जन्मान्तरे सम्ब. न्धग्रहणमस्य वृत्तमिति मन्यामहे, ___ न चायस्कान्तदृष्टान्तसमाश्रयेण स्वाभाविकमेतद्वालकस्य कुचकलशनिमि. त्तोपसर्पणमिति वक्तुमुचितमनन्तरमेव निरस्तत्वात् ,
ननु च गर्भशय्याशायिनोऽप्यपरितोषदर्शनात्तत्साधनोपादाने तदनुस्मरण. मेव प्राप्नोति यदि कार्यमवगम्यते तत्रापि तत्कारणं कल्यतां को दोषः, तत्र तु जनयित्रीजठरपतितानपानपरिपाकसंक्रान्त्या तत्परिपोषमायुवदविदो वद. न्तीति कथं तत्र स्मरणादिकल्पना, कल्पनायां वा प्रथमं निषेकानन्तरमेव क. ललादिशुक्रशोणितविकारसम्भवात्तदशास्वपि स्मरणकल्पनाप्रसङ्गः, न ताव. कल्पनायामपि काचिदस्माकं क्षतिः अयं तु स्तन्याभिलाषेण कुचक्षीरकलशावलोकनोपसर्पणादरो दारकस्य(२) तदनुस्मरणकृत एवेति सर्वथा जम्मान्तरस. म्बन्धानुमानान्नित्य आत्मेति, अतश्चैवं 'वीतरागजन्मादर्शनात्' (गो०३१०१
आ०२३सू०) रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन परित्या. ज्यमानाः सरागा एव जन्तवो जायन्ते न खलु लोके कश्चन तादृशो दृश्यते प्राणी यो जातो वीतरागश्चेति स एष सरागो जायमानः पूर्वोपचितां रागादि. वासनामनुसरतीति सिद्धो जन्मान्तरसम्बन्धः ।
अदृष्टसाधनम् । तथा च केचिज्जायन्त लोभमात्रपरायणाः । द्रव्यसंग्रहणकाग्रमनसो मूषिकादयः ।। मनोभवमयाः केचित्सन्ति पारावतादयः । कूजप्रियतमाचन्चुचुम्बनासक्तचेतसः ।
केचित्क्रोधप्रधानाश्च भवन्ति भुजगादयः । (१) तामरसादीनां-कमलानाम् । (२) दारकस्य-बालकस्य ।