________________
आत्मनित्यत्वमाधनम् ।
न सुखदुःखव्यवस्थादर्शनाद् बन्धमुक्तविभागोपपत्तेश्चात्मभेदस्य दर्शयिष्यमाणत्वात् , व्यापिनः कथं कर्तृत्वमिति चेज , ज्ञानचिकीर्षाप्रयत्नसमवाय एवास्य कर्तृत्वं न व्यापारयोग इति निर्णीतमेतत् ।।
ननु व्यापिन्यात्मनि कथं शरीरबहिरण्वपि(१) कार्य न दृश्यते कर्माक्षिप्तशरीरेन्द्रियादिसहकारिसन्निधाननिबन्धनो हि तत्कार्योत्पादः स कथं बहिर्भवेद् इति। .. तस्मादनन्तरोक्तेन प्रक्रमेणोपपाद्यते।
___ नित्यत्वाद्यापकत्वाच्च परलोकित्वमात्मनः॥ सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत् , सद्यो जातस्य बालस्य वदनविकासरोदनाद्यनुमितो हर्षशोकादियोगस्तावदस्ति, युवशरीरादौ रोदनादि शोकादिकारणकमवगतमिदमाननविकासादि हर्षहेतुकमेवं शिशोरपि तन्निबन्धनस्तदुत्पादः, तौ च हर्षशोको सुखदुःखसाधनाधिगमतदनुस्मरणान्यतरकारको भवितुमर्हतस्तथा दृष्टत्वात् , इह चास्य न सुखदुःखसाधनपदा. थोनुभवः तदानीमस्तीति तदनुस्मरणमेव हर्षशोकहेतुभवेत् , स्मरणमपि तदनु. भवप्रभवमनुभवश्वेह जन्मनि सद्यो जातस्य न समस्तीति(२) जन्मान्तरानुभवसुखदुःखसाधनानुस्मरणनिमित्तक एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरा. नुगमान्नित्य आत्मा, ___नन्वभिनवजीवलोकावलोकालादनिबन्धन एवास्य मुखविकासस्तथा योनिद्वारनिर्गमनोद्गतनिरर्गलक्लेशपीडितस्य तस्य रोदनमिति न जन्मान्तरानुभूत. स्मरणं कल्पयितुं युक्तमतिप्रसङ्गात्,
मैवं, सुखदुःखहेतुमीदृशमननुभवतोऽप्यकस्मादेव हर्षशोकदर्शनात् ।
ननु कमलमुकुलविकासादिवत्स्वाभाविकमेव शिशोर्मुखविकाशादिकार्य स्यात् , स्वाभाविकं नाम किमुच्यते किमहेतुकमविज्ञातहेतुकमनियतहेतुकं वा ? न तावदहेतुकं कार्य सम्भवति कार्यत्वहानिप्रसङ्गात् , नाप्यविज्ञातहेतुकं तद्भा: वयितुं युक्तं कार्यमुपलभ्यत इति तद्धेतुपरिज्ञाने यततां भवान् किमुदास्ते न चासो ज्ञातुमशक्यः कार्यस्यैव तत्र ज्ञापकत्वात् , नाप्यनियतहेतुकं कार्य किचिदस्ति कार्योत्पादननियमेनैव हेतुनियमसिद्धरत एव तत्कार्यमुपपादयितुकामाम्तन्निय. तमेव कारणमुपाददते लौकिकाः,
यत्राप्यनियतो हेतुवृश्चिके गोमयादिकः ।
अभियुक्तास्तदत्रापि विशेषं न न मन्यते ॥ तदेवं कारणनियमोऽपि कार्यविशेषदर्शनाद् दुरुपह्नव इति मुखविकासस्य हर्ष एव कारणमवगम्यते सहस्रकृत्वस्तथा दर्शनात् , अचेतनानां तु तामरसादी.
(१) अण्वपि-किञ्चिदपीत्यर्थः।
(२) समस्ति-सम्भवतीत्यर्थः ।