________________
४०
न्यायमअर्याम् स्तदविनाभाविनो निरवयवस्यापि कर्मादेरिव विनाशः प्रतीयेत, न चैष कस्यचिदात्मा गुणो येनाश्रयविनाशाद्वा विरोधिगुणान्तरप्रादुर्भावाद्वा प्रध्वंसमासा. दयेत् , न चैवं शक्यते वक्तं किं विनाशहेत्वनुमानेन प्रत्यक्ष एवास्य विनाशो दृश्यत इति , यतो न शरीरवदसौ दह्यमानः शकुनिभिरवलुप्यमानो वा कदा. चिदुपलब्ध इति, तस्माद्विनाशादर्शनाद्विनाशहेत्वनुमानासंभवाच्च अस्ति चेदात्मा नित्य एवेत्यवधार्यताम् , तस्माद् भूतचैतन्यमेव चिरंतरचार्वकाचार्यवत्परलोका. पलापपरितोषालम्बितयत्किञ्चनकारित्वसुलभसुखासिकासक्तहृदयैर्वरमाश्रितमा. शरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनोरथाः, भूतचैतन्यपक्षोऽपि च पुरा पराकृत एव तस्मादस्ति नित्यः परलोके प्रमातेति, नित्यत्वे सति पूर्वदेहसंबन्धो भविष्यदेहान्तरसंबन्धश्चास्य न दुरुपपादः, शरीरान्तरसंचारस्तस्य नास्तीति यदुक्तं तद्युक्तमेव व्यापिन सर्वत्र विद्यमानस्या. त्मनः कः संचारार्थः, व्यापित्व एव किं प्रमाणमिति चेत्सर्वत्र कार्योपलम्भः प्रमाणम् , यतो वाराणसीमपि गतस्य मे भवत्येव स्मरणेच्छाऽऽदिकार्ययोगः स चात्मैकप्रभवः आत्मनश्च शरीरस्येव न तत्र गमनममूर्तत्वान्न शरीरगुणवत्तदनाश्रितत्वान्न प्राणादिवदन्तःशरीरवर्तित्वाभावात् , अन्तःशरीरवृत्तित्वे हि द्वयी गतिरेकदेशवृत्तित्वं सर्वशरीरमापूर्य वा तत्र सर्वशरीरापूरकत्वे शरीरप. रिमाणानुविषयत्वाद् बालशरीरयुवस्थविरशरीरवत्पूर्वनीत्या परिमाणान्यत्वेन तदन्यत्वात्पुनरपि प्रतिसन्धानादिकार्यवधुर्यप्रसङ्गः, करिमशकशरीरयोगे च । कर्मपरिणामोपनते तस्य संकोचविकासौ प्राप्नुतः तौ च नित्यस्य विरुध्येते, एकदेशवृत्तित्वे तु तदनधिष्ठितानामवयवानामनात्मकत्वान्मृतशरीरावयववदयथेष्टविनियोज्यता कष्टीभावः स्यात्, प्रदीपवदेतदेशवृत्तरप्यात्मनः सकलशरीरा. धिष्ठातृत्वमिति चेत् , वर्तिप्रदेशोपचिततेजःपिण्डवदेकत्र शरीरावयवे सविशे. षचैतन्यसंवित्तिः स्यात्, अस्त्येव हृदयदेशे तदतिशय इति चेन्न, अनुपलम्भात्, दहनहिमकृपाणादिस्पर्श हि न हृदयस्य प्रदेशान्तरस्य, वा शरीरवेदनाविशेष पश्यामः, तस्मान्न हृत्पुण्डरीके याववस्थानमात्मन: अत एवाङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलायम' इति व्यासवचनमनेवंपरमवगन्तव्यम् , यदि तु मनोवदे. कदेशवृत्तेरणुपरिमाणस्याशु संचरतः शरीराधिष्ठातृत्वमात्मनः कथ्यते, तथाऽपि सहसैव चि(प्रोषितगतागतदयितजनदशनोद्गतसकलशरीरव्यापिस्वेदरोमाञ्चादिदर्शनं विरुध्यते, न च द्वयोरण्वोरात्ममनसाः कर्तृकरणव्यवस्थाऽपि निव. हतीति, तस्मानाणुरात्मा न च शरीरपरिमाण इति व्यापक एवावशिष्यते, तदेवं वाराणस्यामप्ययमात्मा विद्यत एवेति तत्र तत्र तत्कायदशनमवकल्पते नान्येन गमनादिप्रकारेणेति ।
ननु सर्वत्र सुखदुःखज्ञानादिकार्यदर्शनात्सर्वप्राणिनामेक एवात्मा भवेत् ,