________________
चार्वाकमतखण्डनम् ।। न हि नरकनिमग्ना मन्यते कश्चिदेवम् । किल यदहमका प्राग्भवे कर्म पापं
फलमुपनतमस्माद् भुज्यते तन्मयेति ।। कार्योपभोगसमये किमनेन कृत्यं नास्य प्रवृत्तिरधुना न निवृत्तिरस्मात् । यस्तु प्रवृत्तिजननौपयिकोऽपमर्शः शास्त्रादसौ भवति शास्त्रविदामवश्यम् ॥
विमर्शोऽयं पश्चादपि भवति दृष्टे तु विषये मया यूना यत्तत्किमपि सदसद्वा कृतमभूत् । ततो वृद्धोऽद्याहं फलमनुभवामीति तदयं पुमानस्ति स्थायी सुकृतफलभोगादिनिपुण. ।।। नास्त्यात्मा फलभोगमात्रमथ च स्वर्गाय चैत्यार्चनं संस्काराः क्षणिका युगस्थितिभृतश्चते विहाराः कृताः। सर्व शून्यमिदं वसूनि गुरवे देहोति चादिश्यते बौद्धानां चरितं किमन्यादयती दम्भस्य भूमिः परा॥
चार्वाकमतेन पूर्वपक्षः। अत्र सुशिक्षिताश्चार्वाका आहुः---यावच्छरीरमवस्थितमेकं प्रमातृतत्त्वमनुसंधानादिव्यवहारसमर्थमस्तु नाम कस्तत्र कलहायते शरीरादूर्व तु तदस्तीति किमत्र प्रमाणम् , न च पूर्वशरीरमपहाय शरीरान्त संक्रामति प्रमाता, यदि ह्येवं भवेत्तदिह शरीरे शैशवदशानुभूतपदार्थस्मरणवदतीतजन्मानुभूतपदार्थस्मरणमपि तस्य भवेन हि तस्य नित्यत्वाविशेषे च शरीरभेदाविशेषे च स्मर णविशेषे कारणमुत्पश्यामो यदिह जन्मन्येवानुभूतं स्मरति नान्यजन्मानुभूतमिति, तस्मादूर्ध्व देहान्नास्त्येव प्रमातेति नित्यात्मवादमूलपरलोककथाकुरुकु /मपास्य यथासुखमास्यताम् , यथाऽऽह
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः । भस्मीभूतस्य शान्तस्य पुनरागमनं कुत इति ॥
चावकिपतनिगसः ।। अत्रोच्यते-न खलु निपुणमित्र सुशिक्षितमायुष्मता चार्वाकाचार्यचातुर्यम् , यावच्छरीरमेकमनुयायि प्रमातृतत्त्वमस्तीति यदुक्तवानसि तन्न विस्मर्तुमह सि, न चास्तित्वाविनाभावी भावानां विनाशः स्वाभाविकः किन्तु हेत्वन्तरनिमित्तक इति सौगतैः सह कलहमतिमात्रमधुनव कृत्वा समर्थितोऽयमर्थः, न च विनाशहेतुः प्रमातरि चिरमपि विचार्यमाणः कश्चित्कुतश्चिदवाप्यते, न चानुपलभ्यमानोऽप्यसौ कल्पयितुं पायते, न यात्मा पटादिरिव सावयव उप. लभ्यते यदवयवविभागादिना नक्षयतीति गम्यते, उत्पत्तिनात्मनो दृष्टा यत.