________________
न्यायमअर्याम्
न ह्यथोवगतेरन्यदूपं ज्ञानम्य किं चन । मूछोदिषु कुतस्तत्स्थात्कुतो वा कललादिषु ।। कललादिदशायां वा यदि विज्ञानमिष्यते । मातापितृस्थयोरस्ति शुक्रशोणितयोरपि ॥ ततश्चैकत्र संताने चैतन्यद्वयमापतेत् । चेतनानां बहुत्वं वा दम्पत्योबहुपुत्रयोः । न चैष नियमो लोके सदृशात्सदृशोद्भवः । वृश्चिकादेः समुत्पादो गोमयादपि दृश्यते ।। शरीरान्तरसंचारचातुर्य च धियां कथम् । ज्वालादिवन्न मूर्तत्वं न च व्यापकताऽऽत्मवत् ।। आतिवाहिक देहेन नीयन्ते चेद्भवान्तरम् । नन्वातिवाहिकेऽप्यासां कथं संचारसंभवः ।। आस्तामिवैष वा जीवदेहेऽपि पथि गच्छताम् । प्रदेशान्तरसंचारो ज्ञानानां भवतः कथम् ।। न ह्येषां भूतधर्मत्वं न स्वतो गतिशक्तिता। न च जात्यादिवद् वृत्तिन च व्यापकताऽऽत्मवत् ।। एवं यदेव निष्क्रान्तो विहारकुहराद्भवान् । तदा कष्टी भवबंहो ज्ञानसंक्रान्तिसंभवात् ।। तदयं संक्षेपार्थस्त्यक्तव्यो वा निरस्य कुरुकुर्वीम् ।
सुरगुरुवत्परलोको १) नित्यो वाऽऽत्माऽभ्युपेतव्यः । यत्त्वस्य चमगगनोपमता विकल्प्य नाशित्वमुक्तमथ वा विफलत्वमेव । तन्नैव साधु सुखदुःखदृशोपभोगयोगेऽपि नाशमधिगच्छति नायमात्मा। विकृतिश्च तस्य सुखदुःखजन्मना न हि तादृशो भवति लुप्यते यया । सहकारिकारणवशात्तु जायते तदमुष्य येन समुपैति भोक्तताम् ।। अथ वापजनव्ययस्वभावस्स्वदशाभेदसमन्वये हि पुंसः । फणिनः किल कुण्डलाद्यवस्थानुगतस्येव न भिन्नतेति के चित् ।।
अवस्था एवंताः प्रसभविलयातङ्कविधुराः । अवस्थाता त्वेकः स्फुरति निरपायस्थिरवपुः। असत्यस्मिन्पूवावगतिविषयानुस्मृतिभुवा न सिद्धिः कार्याणामिति निपुणमावेदितमिदम् ।।
ननु विमृशति भागे कर्म नित्याऽपि नात्मा (१) परलोक इति । तथाच धर्मसंग्रहे नागार्जुन:-संजीवः कालसूत्रः संधातो रौ. रवो महारवस्तपनः प्रतापनोऽवीचिश्चेति, अष्टावष्णनरकाः' इति । नास्तिकत्वं तु बेदनिन्दकत्वेन 'नास्तिको वेदनिन्दक' इतिमन्तः ।