________________
क्षणभङ्गनिरासः । एवमनन्तरनिगदितदूषणनिक्ररुम्ब(१)विनिहतप्रसरम् । नाध्यक्ष क्षणिकत्वे न चानुमानप्रमाणं तत् ।। क्षणभङ्ग निरस्ते च कार्यमाधारवद् ध्रुवम् । अतो ज्ञानादिकार्येण युक्तमाश्रयकल्पनम् ।। सुखादेरपि कार्यस्य विज्ञानाद्यतिरिक्तता। प्रागुक्तति तदप्यन्यद्भवत्यस्यानुमापकम् ॥ किं च नाङ्गीकरोषि त्वमात्मानं पारलौकिकम् । उपैषि परलाकं च किमिदं ते बकव्रतम् ।। कर्म सन्तानिनाऽन्येन यत्कृतं चैत्यवन्दनम् । ततोऽद्य फलमन्येन भुज्यतेऽकृतकर्मणा ।। न वा निवृतिरप्येति चैत्यवन्दनकर्मणा । ज्ञानक्षणेन नैकेन किंचित्कर्म समाप्यते । कार्यकारणभावश्च यस्त्वदुक्तः स दूषितः ।। कार्यकारणभावे हि न ह्यन्तत्वं निवर्तते । अनैकान्तिकता चास्य सन्तानान्तरबुद्धिभिः । उपादानत्वरूपोऽपि विशेषः प्राङ् निराकृतः ।। कापोसरागसंक्रान्तिदृष्टान्तो यश्च वर्णितः । सोऽप्ययुक्तः स्वरूपेण तत्र तस्यैव दर्शनात् ॥ य एव रागः कापासे बीजे समुपकल्पितः । स एव दृश्यते पुष्पे न तु तस्मात्फलान्तरम् ।। एवं कमोनुवृत्तिः स्यात्फलभोगस्तु दुर्घटः । कमोनुवृत्तिरप्येषा न चैकस्यास्ति कस्य चित् ।। कार्यकारणयोर्भेदात्कार्पासकुसुमादिवत् । अन्यत्रैव हि कर्म स्यादन्यत्रैव च तत्फलम् ।। न च सन्तानभोगाय कश्चित्कर्मानुतिष्ठति । फलमस्मान्ममैव स्यादिति सर्वः प्रवर्तते ।। सर्वथा शाक्यभिक्षणां परलोको विसंष्ठलः । न तत्प्रसाधने तेषां का चिद्गमनिका ऽस्ति वा।। गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् । ज्ञानत्वादित्ययं हेतुरप्रयोजक इष्यते ॥ मूर्छाद्यनन्तरोद्भूतज्ञानेश्च व्यभिचार्ययम् ।
मूर्छितस्यापि विज्ञानमस्तीत्येतत्तु कौतुकम् ।। (१) दूषणनिकुरुम्बः-दूषणसमूहः ।