________________
न्यायमञ्जर्याम्
नन्विन्द्रिय व्यापारो न क्षणान्तरस्थायीति तस्मिन्नसति कुतोऽस्य विततकालग्रह्णम्, तदलं भवतु श्रान्तोऽसि मज्जस्वैवं ब्रुवाणः निमेषकृतोऽपि विच्छेदोsस्य नास्ति अथ च न स्थिर इन्द्रियव्यापार इति साहसिकतामात्रम्, सन्निकर्षश्चास्य विषयग्रहणे : व्यापारः स च स्थिर एव तस्माद्विततकालस्य व स्तुनः प्रत्यक्षेण ग्रहणमिति स्थितम् एवं च स्थिते न स्वरूपमात्रमेव भावानां विनाशकारणं कारणानां च नित्यत्वमेव दण्डादीनामिति सिद्धम्,
1
यत्पुनरभाणि दर्शनादर्शने एव सत्त्वासत्त्वे भावानामिति तदपि व्यामूढभाषितम्, दर्शनादर्शनाभ्यामेव भावाभावयोः (१) परिच्छेदः न पुनर्दर्शनादर्शने एव भावाभावावभावश्च विस्तरतः प्राक साधितः स च सहेतुक इति न स्वतएव विशरारवो (२)भावाः, एवं तु निष्प्रमाणे पदार्थस्थैर्यपक्षे ज्ञानं तु जनकस्य नियतस्य वस्तुनो दर्शनम् दर्शनविषयीकृतस्य प्रवृत्तिः प्रवृत्तिविषयीकृतस्य प्रा. प्तिरिति व्यवहारो न स्यादर्थक्षणनानात्वात्, बाध्यबाधकभावश्च कचिज्ज्ञानानां दृष्टः स च न स्यात्पूर्वावगतरजतादिविषयभावग्राहिणो ज्ञानस्य ( ३ ) गृहीतमुद्गरदलितघटाभावज्ञानवाधकत्वानुपपत्तेः पूर्वदृष्टस्य स्मरणं स्मृतस्य कस्यचित्प्रत्यभिज्ञानं प्रत्यभिज्ञातस्य गृहादेरर्धकृतस्य समापनमित्यादयश्च व्यवहाराविप्रलुप्येरन् ।
३६
"
क्षणभङ्गभङ्गोपसंहारः ।
अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् । न तस्य भिन्नाभिन्नत्व विकल्पानुपपत्तितः ॥ अभेदपक्षे क्षणवद्व्यवहारो न सिध्यति । व्यतिरेके तु चिन्त्योऽसौ वास्तवोऽवास्तवोऽपि वा ।। अवास्तवत्वे पूर्वोक्तं कार्यं विघटते पुनः । वास्तवत्वे स्थिरो वा स्यात्क्षणिको वेति चिन्त्यताम् ॥ सन्तानिनिर्विशेषः स्यात्सन्तानः क्षणभङ्गुरः । न सिध्येत्पुनरप्येष व्यवहारः पुरोदितः ॥ अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् । उतिष्ठ भिक्षो ! फलितास्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः ।। तदेवं सति सन्तोनच्छद्मनो विनिवारणात् । लोकयात्रा स्थिरैरेव पदार्थैरुपपद्यताम् ॥
( १ ) परिच्छेदः - निश्चयः ।
(२) विशराखो - नश्वराः ।
(३) पूर्व गृहीतः पश्चाद् मुद्गरेण दलितो यो घटस्तदभावज्ञानस्य न पूर्वज्ञानबाधकत्वम् । पूर्वकालेति समासः ।