________________
प्रत्यक्षस्य स्थैर्यसाधकत्वम् । प्रत्यक्षस्य स्थिरवस्तुग्राहकत्वम् ।
अपि च निमेषदृष्टेरत्रुटित सत्ता कस्तम्भादिपदार्थग्राहि प्रत्यक्षमुत्पद्यते तकथंक्षणिकग्राहि कथ्यते,
३५
-
यच्च तत्र विकल्पितमतीतानागत क्षरणयोर सन्निहितत्वेन प्रत्यक्ष प्राह्यताऽनुपपत्तेर्वर्त्तमानक्षणस्य चातिसूक्ष्मत्वात्तत्कालप्राहिणा प्रत्यक्षेण क्षणिकत्वं गृहीतं भवतीति, तदनुपपन्नम्, मा नाम भूदतीतानागतकालग्रहणं वर्तमान एव तंत्रानिमेषदर्शनस्य कियान्काल इति चिन्त्यताम्, निमेष कृतस्यापि दर्शनविच्छेदस्यानवकाशाद्यावद्धि दर्शनं न विच्छिन्नं तावान्वर्तमानः काल इति तद्ग्रहणे स्थैर्यं गृहीतं भवति न क्षणिकत्वम्,
ननु तावानसौ कालः स क्षणसमुदायो भवति न क्षरण : क्षणचैक एव वर्तमानो भवति न ततः पूर्वापरौ क्षणावतीतानागतौ भवतः तयोश्च न ग्रहणमित्युक्तम्, सिद्धे क्षणिकत्व एवं शक्यते वक्तुं न तु तत्साधनावसरे, कालोह्येको नित्यो विभुरिति साधितोऽनुमानपरीक्षायाम्, न तु क्षणसमुदायात्मा कालः कालस्य तु भेदाः क्रियोपजनविनाशाद्युपनिबन्धनाः कल्प्यन्त इत्यपि तत्रैव परीक्षितम्, तदयमनिमेषदृष्टे दर्शन विच्छेदानुपग्रहात्तावानेकः स वर्त्तमान
एव भवतु,
कालो नाम न कश्चित्पारमार्थिकः पदार्थ एव परिदृश्यमानो वर्त्तमानादिव्यवहारहेतुः स च न चिरमनुभूयत इति क्षणिक उच्यते, भिक्षो ! अलमवान्तरगमनेन मा भूत्कालः पदार्थस्त्वनिमेषदृष्टिना दृष्ट्यविच्छेदादविच्छिन्नसताक एव दृश्यत इति न क्षणिकग्राहि प्रत्यक्षम्,
ननु भवद्भिरपि न स्थिरं ज्ञानमिष्यते क्षीणे च ज्ञाने सोऽथों द्वितीयक्षणे केन गृह्यते ज्ञानान्तरेण तु गृह्यमाणः स एवेत्यत्र को निश्चयः, अनिमेषदृष्टेर्ज्ञानं नीयत एवेत्येके,
अथ वा किं न एतेन न हि विषयप्रतिभासकाले ज्ञानमवभासत इत्यसकृदुक्तं, वक्ष्यते च तत्र तत्कीदृशमिति कुतो वयं विद्मः अर्थस्त्वविच्छिन्नसत्ताक एव गृह्यते ज्ञानं तु वर्त्तमानकालमप्यतीतानागतकालग्राहि भवति स्मरणमित्र (१) प्रातिभमिव भूतभविष्यद्दृष्ट्यनुमानमिव,
( १ ) प्रातिभम् - कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति हृदयं मे कथयत ज्ञानम् । तथाच प्रशस्तपादभाष्यम् 'आम्नायविशतूणामृषीणामतीतानागतवर्तमानेवीद्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेषु चात्ममनसोः संयोगाद्धर्मविशेषाञ्च यत्प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्येत तदार्पमित्याचक्षते । तत्तु प्रस्तारेण देवर्षीणाम् कदाचिदेव लौकिकानाम् यथा कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति हृदयं मे कबयतीति' इति ।