________________
३४
न्यायमञ्जर्याम्
तु निरस्तमव, यद्यपि च नैष नियमः प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षं बलीय इति त्वरिततरपरिभ्रमितचक्रीभवदलातग्राहिणः प्रत्यक्षस्यानुमानबाधितत्वदर्शनादिति, तथा प्रकृतं क्षणिकत्वानुमानमन्यथासिद्धमनन्यथासिद्धं तु प्रत्यक्षमिति प्रत्यक्षमेव क्षणिकत्वानुमानस्य बाधकं, न चेतरेतराश्रयत्वमनुमानमिध्यात्वनिबन्धनं प्रत्यभिज्ञाप्रत्यक्षप्रामाण्यानभ्युपगमात्, स्वहेतु बलवत्तयैव प्रत्यभिज्ञा प्रत्यक्षं न तस्येदं दैन्यं यदनुमानमिध्यात्वे सति तत्प्रमाणीभवियतीति,
आस्तां वा प्रत्यभिज्ञानं य एष प्रथमक्षणः । स्तम्भादिबोधस्तेनापि बाध्यते क्षणभङ्गिता ॥
तुल्यसामग्रयधीनत्वनिराकृतत्वात्साकारस्य निराकरिष्यमाणत्वादन्वयव्यतिरेकोप कृतमानसप्रत्यक्षनिश्चितजनकस्य चार्थस्यावभास्यत्वनिश्चयादुत्पन्नोऽर्थो ज्ञानं जनयति जातेन च ज्ञानेन गृह्यत इति बलाद् द्वित्रिचरणावस्थायित्वमस्यो. पलभ्यत इति कुतः क्षणिकत्वम् ?
यदि लब्धस्वरूपोऽपि न नष्टः प्रथमे क्षणे । हेत्वन्तराद्विनाशोऽस्य न स्वरूपनिबन्धः ॥ विचित्रा च पदार्थानां प्रतीतिरिह दृश्यते । चिरन्तनमतिः काचित्काचित्तत्कालजातधीः ॥ सलिलाह रणव्यप्रकुम्भावगतिरन्यथा । तदैव कन्दुकाष्टकुम्भावगतिरन्यथा ॥ एतेन (१) र विगुप्तोऽपि परिम्लानमुखीकृतः । क्षणिकत्वक्षमादित्वसमुत्प्रेक्षणपण्डितः ॥
तथा हि वर्तमान वस्तुविग्रहप्राहि विज्ञानमनन्तरोक्तनयेन जनकार्थप्रतिभासनाद् द्वित्रिक्षणस्थायितामर्थस्य गमयतीत्युक्तम्, आद्यं च किंचिद्विज्ञानमनागतकालस्पर्श भवति, यथाऽऽह भट्ट :- 'रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते' इति, उत्तरमपि प्रत्यभिज्ञानं प्रतीतकालावच्छिन्नमर्थमवद्योतयतीति दर्शितम्,
न चातीतानागतजन्मग्रहणमाशङ्कनीयमिति कारणसामर्थ्यनियमान्न ह्यतीतानागतजन्मग्रहणमशक्यक्रियमिति यावदपि दृश्यमानं ग्रहणं तदप्यपन्होतुं युक्तम्, न चैतावताऽतीतानागत कालावच्छिन्नवर्तनानवस्तुग्रहणमात्रेण सामान्यतो दृष्टेनादृष्टमप्यतीतानागतज्ञानं करूप्यम्, यथादर्शनं हि वस्तूनि व्यवस्थाप्यन्ते न किचिद् दृष्ट्वाऽन्यदपि कल्प्यते दृष्टमपि वा निन्हूयत इति,
( १ ) रविगुप्तो नाम कश्चित् क्षणिकवादी ।