________________
प्रत्यभिज्ञया स्थैर्यसाधनम् । नन्वतीतेऽर्थे कथमिन्द्रियं प्रवर्तते ? कस्यैष पर्यनुयोगः ? नेन्द्रियस्या. चेतनत्वात् पुरुषस्त्वविस्फारिताक्षो नेहशीं प्रतिपत्तिं लभते विस्फारिताक्षस्तु लभते इति सोऽपि नानुयोज्यः,
नन्वतीतग्राहित्वाद्वरमप्रामाण्यं कल्पयितुं युक्तमस्या बुद्धेरिन्द्रियस्यातीते. ऽपि सामर्थ्यमदृष्टमिति, अप्रामाण्यं नाम बाधकात्प्रत्ययात्कल्प्यते न चासावस्ति प्रत्यभिज्ञायाम् अनुमानं तु तावकं प्रतिक्षिप्तम,
ननु कारणदोषादवकल्पते एवाप्रामाण्यम् , आयुष्मन् ! सोऽप्युच्यताम् , उक्त एवेन्द्रियस्यातीतविषयग्रहणे सामर्थ्य विरहः, वत्स! सम्यगुक्तवानसि नायमिन्द्रि. यस्य तिमिरादिरिव दोषः, अतीते काले स्वतन्त्रे तस्य सामथ्र्य न तद्ग्राह्यव. तमानवस्तुविशेषणीभूते, संस्कारसचिवस्य चास्य सामर्थ्य न केवलस्येत्युक्तम् , तस्मादतिक्रान्तकालविशेषितपूर्ववत्तिस्तम्भादिपदार्थविषयमिन्द्रियादिसन्निकर्षोंत्पन्नमेवेदं प्रत्यभिज्ञाज्ञानमिति सिद्धम् , __ अथ वा पूर्वाभिज्ञानविशिष्टग्राह्यमाणमिष्यतां प्रत्यभिज्ञानं गन्धवत्कुन्दबु. द्विवद्, यथा हि लोचनगोचरेऽपि कुन्दकुसुमे तदविषयगन्धविशेषिते बाह्येन्द्रियद्वारकग्रहणमघटमानमिति मानसमेव सुरभि कुसुममिति ज्ञानम् एवं पूर्वज्ञान. विशेषितस्य स्तम्भादेविशेषणमतीतक्षणविषय इति मानसी प्रत्यभिज्ञा पूर्वप्रवृत्तबाह्येन्द्रियोपजनितज्ञानविशिष्टबाह्यविषयग्राहिणि चान्तःकरणेऽभ्युपगम्यमाने सति नान्धाद्यभावप्रसङ्ग इति बहुशः कथितम् ,
ननु कुन्दादेविशेषणं वर्तमानमस्ति सौरभम् इह त्वतीतं पूर्वविज्ञानमिति कथं विशेषणमत्र, किं तेन सता करिष्यसि शतादिबुद्धिष्वतिक्रान्तस्यापि कपित्थादेः कारणत्वदर्शनादिति तदेवमन्तःकरणजन्मनाऽपि प्रत्यभिज्ञानेन स्थैर्यमवस्थाप्यत एव भावानाम्,
क्षणभङ्गनिरासः। या तु मुण्डितकेशादिप्रत्यभिज्ञानतुल्यता ।
स्तम्भादिप्रत्यभिज्ञायाः कथ्यते सा(१)ऽप्यसङ्गता ।। तत्रान्तराले मुण्डितशिरोदर्शनमेव बाधकमिह तु न किंचिदस्ति, अत. एव शब्दे सदैव स्फुरन्त्या विनाशबुद्ध्या वैधुर्यमुपनीता प्रत्यभिज्ञा तु न तामवस्थापयितुं समर्थत्युक्तम् , ज्वालादावपि तैलवतिक्षयानुमानबाधितत्वाद् भ्रान्ता प्रत्यभिज्ञा न तु तथा स्तम्भादावनुमानमपि बाधकमस्ति, सत्त्वानुमान
(१) पूर्व मुण्डितेषु पश्चादुत्पन्नेषु केशेषु त एवामी केशा इति प्रत्यभिज्ञा यथैकत्वस्य स्थिरत्वस्य वा न साधिका तद्वत्स्तम्भादिप्रत्यभिज्ञाऽपि इति तौल्यं खण्ड. यति-सापीति ।