________________
न्यायमञ्जर्याम्
नासावस्तीत्युच्यते अपि त्वासीदस्तीत्युच्यमानं वर्त्तमान एव न भूतः, हन्स भूतो भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते, भूतत्वेनैवेति ब्रूमः, कालो भूततया गृह्यते वर्तमानो वर्तमानतयैवार्थस्तूभयानुगत एक एव
३२
भूतः
तथा ग्रहणात्,
ननु भूतकालस्येदानीमभावात्तद्विषयं ज्ञानमनर्थजं स्यान्न धर्मिणस्तदवच्छि न्नस्य ज्ञानजनकस्य भावात् भूतः कथमवच्छेदक इति चेत्तथा प्रतिभासात्, प्रतीतिमवमृषतु भवान्स एवायमिति यः पूर्वमासीत्स इदानीमप्यस्तीति सोऽयमतीतकालविशिष्टोऽर्थ एतस्यां बुद्धाववभासते,
"
नन्वसता भूतकालेन विशेषितमर्थ कथमिन्द्रियजप्रतीतिरालम्बनीकुर्य्यात्, उच्यते-
अन्त्य संख्येयसंवित्तिकाले प्रागवलोकिताः । यथा शतादिज्ञानानि जनयन्ति घटादय: ॥ अतीतकालसंसर्गो भवन्नेव विशेषणम् । स्तम्भादिप्रत्यभिज्ञायाः कारणत्वं प्रपत्स्यते ॥
संख्येयाः घटादयः सन्त्यतीतकालो नास्ति इति चेत्कपित्थेषु भक्ष्यमाणेषु किं वक्ष्यति देवानांप्रियः, शतं कपित्थानां भक्षितवान्वाहीक इति प्रतीतिदर्श तात्, न च (१) नवनवतावनुपयुक्तेषु कपित्थेष्वत्रैव शततमे शतमिति भवति यथा तत्रातिक्रान्तान्यपि नवनवतिः कपित्थानि शतप्रतीतिहेतुतामुपयान्ति प्रतिभासोपारूढत्वादेवमतीत कालयोगोऽपि प्रतिभासमानः प्रत्यभिज्ञामाधास्यतीति,
विकल्पमात्रं शतप्रत्यय इति चेद् भो महात्मन् किं वा न विकल्पमात्रम्, किन्तु जीवन्त्यमी सविकल्पकप्रामाण्यवादिनः,
यश्च सामान्यसंसिद्धौ प्रकार: प्राक् प्रदर्शितः । योज्यः स एव द्वित्वादिसंख्यासद्भावसिद्धये || इत्यलं कथाक्षेपेण |
"
नन्वतिक्रान्तग्राहि च प्रत्यभिज्ञाविज्ञानमिन्द्रियार्थसन्निकर्षजं चेति नः कौतुकमिदं कियत्कौतुकमर्थस्तावदस्य पुरोऽवस्थितोऽस्त्येव जनकः स्तम्भादिः, वस्तु वर्तमानकाल एव न केवलं, वर्तमानकालयोगिनाऽर्थेन तत्प्रत्ययजननात्तस्य वर्तमान इवातीतोऽपि कालोऽवच्छेदकतां प्रतिपद्यते स च तदवच्छिन्नोऽर्थ इदं ज्ञानमादधातीत्यर्थजमेतदिन्द्रियजमपि भवति तद्भावाभावानु - विधानात्,
(१) नवेति । यदा नवतिः कपित्था भुक्ता एकेोऽवशिष्ट इति अवशिष्टमेकमादाय शतमितिव्यवहारो भवितुं नार्हति इति अतीतानपि कपित्थानादाय शतमिति व्यवहारः तथा अतीतकालयोगाऽपि प्रत्यभिज्ञामाधास्यतीति भावः ।