________________
आत्मानुमापकः।
कलशमद्य यावदनुवर्तमानमीश्वग्वेश्मस्वपि पश्यति लोक इत्यवश्यंभावी तस्य विनाशे हेतुः, तस्मात्सहेतुको विनाश इति न स्वत एव नश्वरो भावः । ___अपि च प्रत्यभिज्ञा स्वतजोविभवविधूतबौद्धसिद्धान्तध्वान्तसिद्धनिर्भङ्गरमेव भावनिवहमानेशमुपदर्शयन्ती दिनेशदीधितिदशशतविभागवती सर्व तो जाज्वलीतीति कस्तस्यां सत्यां क्षणभङ्गिनो भावानभिदध्यात् , यत् किं. चन तस्य समभाषितं तत्सर्वमसमञ्जसम , __यत्तावदिदं कल्पितं स एवायमिति किमेकं विज्ञानमुत द्वे इति, तत्रोच्यते सामानाधिकरण्येन नैकविषयावद्योतनप्रवणैकप्रतीतिसंवेदनात्केयं द्वित्वाशङ्का योऽयंसमः यःसमोऽयमित्येकत्वावमशिनी, स्वतस्तु याऽनेकप्रतीतिरनुभूयते घटोऽयं पटोयमिति तत्र निरन्तरोत्पन्नघटज्ञानपटस्मरणवद्भिन्नविषयं बुद्धिद्वय. मिति, यत्त किमेकप्रतीतिजन्मनि कारणमिति,
काय चेदवगम्येत किं कारणपरीक्षया ।
कार्य चेन्नावगम्येत किं कारणपरीक्षया ।। न च कार्यमकारणं भवितुमर्हति कार्यत्वस्यानुपपत्तेरिति भवितव्यमेव तत्र कारणेन, अस्ति च संस्कारसहितमिन्द्रियमस्याः प्रतीतः करणं पृथक्कार्यता. ऽपि तयोर्दर्शनादेव, अभ्युपगतमिदं तु दृष्टत्वाद् दुरपलपम् , क चित्तु केवलेन्द्रिय व्यापारकार्यदर्शनान्न सर्वस्य तथाविधस्यैव तस्य कार्यकारित्वं सहकार्यपेक्षणेन कार्यान्तरजननात् ।
प्रत्यभिज्ञायां भूतकालस्य विषयत्वम् ! यत्तूक्तं कीडशोऽर्थः प्रत्यभिज्ञायामवभातीति, तत्रैते वादिन: शतकृत्वो द. त्तोत्तरा अपि यत्पुनरस्माननुयुजते तेन बलवदुद्विग्नाः स्मः, उक्तमत्र प्रमितयः प्रष्टया न तु वादिन इति, अतीतकालविशिष्टो वर्तमानकालावच्छिन्नश्वार्थ एत. स्यामवभासते,
ननु पूर्वापरौ कालो परस्परविरोधिनौ ।
नैकत्र विशतस्तेन तद्भेदास्तु भिद्यते ॥ . नैतदेवम् , केयूरकिरीटकटककुण्डलादिभेदेऽपि देवदत्तस्याभेदात् , अव. यव्यस्ति नास्तीति परीक्षणं वादान्तरगमनम् , अपवर्गाह्निके च विस्तरेणावयवी साधयिष्यत इत्यास्तामेतत् , कुण्डलादीनामविरोधादिति चेन्न, लाक्षणिकविरोधाभ्युपगमात्परस्परव्यवहारव्यवस्थितात्माना हि सर्वे भावा इति वदद्भिर्भवद्धि. रभ्युपेत एषां विरोधः ।
ननु केयरादीनां विरोधेऽपि तदवस्थानादेकदेवदत्तसम्बन्धित्वमभ्युपपद्यता पि भूतवर्तमानयास्तु युगपदसन्निधानात्तद्विशिष्टता स्तम्भादेरुच्यते प्रतीयते च द्वौ कालौ न च सन्निहिताविति चित्रम् , किं भूतोऽपि काल इदानीमस्ति ? मैवम्