________________
न्यायमअर्याम
- समर्थत्वासमर्थत्वविकल्पेऽपि प्रसङ्गतः ।
सामग्रथा एव सामथ्र्य ततः कार्यस्य दर्शनात् । तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङ्गस्येव सामथ्र्य यावत्तावदभ्युपगतमेव तदपेक्षस्य सामग्रयाः साधकतमत्वस्य निर्वहणं न हि भवति कृष्णा. च्छुक्ल इति, अविकल्पं तु सामग्र्या एव सामर्थ्य यदनन्तरं कार्यनिष्पत्तिरिति कार्यनिष्पत्तिदर्शनादेवावगम्यते, __यदप्येकक्षणस्थायि कारकं स्यादित्युद्घोषितं परैः, तदप्यसत् , कार्यनि
पत्तिपर्यन्तत्वावस्थानस्य एकेन क्षणेन तेषामेककार्यनिष्पत्तरघटमानत्वात् , कार्यसंपत्तेरूव॑तु सामग्री विप्लवते न समग्राणि तेषामेकैकशः कचित्कचिदु. पलम्भाञ्चक्रसूत्रदण्डादीनाम् , इत्थं स्थिराणामेव पदार्थानामर्थक्रियासामर्थ्य समर्थितमिति न ततः क्षणभङ्गसिद्धिः,
एवं च सत्त्वनित्यत्वयोविरोधात्सत्त्वप्रतीत्यैव एकचन्द्रबुद्धिवत्तदितरनिराकरणमित्यादि यत्प्रलपितं तत्प्रतिक्षिप्तं भवति, - यदप्यमाणि नाशं प्रत्यनपेक्षत्वाक्षणिकाः पदार्था इति, तदपि यत्किंचिहएडादिव्यापारान्वयव्यतिरेकानुविधायिनस्तत्कार्यस्य घटाद्यभावस्य विस्तरतः प्रमाणचिन्ताऽवसरे प्रसाधितत्वात् , प्रध्वंसाभावश्च विनाश इत्युच्यते, .. ..
नश्वरानश्वरादिविकल्पास्तु न साधवः ।।
सामग्र्यधीनः प्रध्वंसो भावानामात्मलाभवत् ।। मुद्गरादिसामग्रया घटस्य किं क्रियते ? मृत्पिण्डदण्डसामग्रया किमस्य क्रियते ? आत्मलाभ इति चेदनयाऽप्यात्महानं करिष्यते,
ननु नश्वरत्वे तत्कारणमफलमनश्वरत्वे त्वशक्तमिति, उत्पत्तावपि तुल्यो. ऽयं प्रलापः, भवनस्वभावश्चेद् घटः स्वत एव भवति किं दण्डादिसामग्रया अभवनस्वभावस्तु कर्तुमशक्यः खरविषाणवदिति, कारकव्यापारकार्यत्वदर्शनादपर्यनुयोग एष इति चेद्विनाशेऽपि समः समाधिः, उत्पत्तिवद्विनाशस्यापि कारकान्वयव्यतिरकानुविधायित्वम् ,
तस्मादुत्पन्नमात्रस्य विनाशो नास्ति वस्तुनः ।
आविनाशकसद्भावावस्थानमिति स्थितम् ।। । ननु सापेक्षाणां भावानां नावश्यंभाविता भवेदिति घटस्य विनाशहेतु:पनिपतेदपि कदा चिदित्येवमसौ किं नित्य एव भवत्विति, अहो महान्प्रमाद उत्सन्नाः प्रजाः पतितो महान् वज्राशनिर्दुष्प्रतरोऽयं दोष उत्थितः यदिह घटो नित्यो भवेत्तदिह कालाग्निरुद्र इव त्रिभुवनमपि भस्मीकुयोत् , अपि च रे मूढ ! सावयवस्याश्रितस्य कार्यस्य च नूनमवयव विभागादाश्रयविनाशाद्वा यदा कदा चिद्भवितव्यमेव विनाशेनेति कस्तन्नित्यत्वशङ्काऽवसरः, तथा हि न रामाभिषेक