________________
आत्मन्याक्षेपः । शोत्पादावित्येवं पूर्वक्षणविनाशेनोत्तरक्षणनिर्वृत्तरियतैव कार्यकारणभावमश्नुवीयाताम्-इति, - तदप्यमनोरमम्-न ह्ययमायुष्मतामस्त्यवधृतस्तुलान्तदृष्टान्तः.. तत्रान्यदेव हेमादि नामोन्नामनिबन्धनम् ।
तन्नामो न तु नामैव तेन वा स विधीयते ।। इहापि न पूर्वेण क्षणेन नापि तद्विशेषेणोत्तरः क्षण उत्पद्यते, न च हेमस्थानीयमिहान्यदस्तीत्यनुत्पत्तिरेवावशिष्यते,
सर्वथा परनिष्पत्ती निव्योपारं न कारणम् । सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ॥ इत्थं च सत्त्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः। तेनासाधारणत्वेन यायात्संशयहेतुताम् ।।
क्षणिकत्वहेतोविरुद्धत्वम् अथ वा लब्धात्मनः पदार्थस्य परोत्पत्ती व्याप्रियमाणत्वेन कारणत्वावधारणाद् द्वित्रिक्षणस्थायित्वमवश्यमनन्तरनीत्या भवेदिति प्रत्युत सत्त्वादक्षणिकत्वसिद्धेविरुद्धोऽयं हेतुः, अतश्चवं नित्यानामेवार्थक्रियाकारित्वोपपत्ते, समवाय्यसमवायिनिमित्तभेदेन त्रिविधा कारणसामग्री परस्परसंसर्गमागत्य यथासन्निधानं काय प्रसूत इति कृतं क्रमयोगपद्यविकल्पैस्तावकैः यदवाविकल. सामग्री तदैव कार्योत्पत्तिः,
अत एव च कार्याणां युगपन्न समुद्भवः । न चापि कृत्वा करणं सामग्री हि न सर्वदा ॥ प्राणिकर्मविपाकोऽपि सामग्र्यन्तर्गतो नवः ।
सर्वत्र सुखदुःखादिहेतुस्त्वत्रोपपाद्यते ॥ न च समप्रव्यतिरेकाव्यतिरेकविकल्पोऽस्मत्पने सामग्री बाधते समग्र धर्मत्वात्सामग्रयाः समप्रापेक्षया च सामग्रयेव तमबतिशययोगात्कारणमिति(१) प्रमाणसामान्यलक्षणे निर्णीतम् ,
(१) ननु प्रमीयते येन तत्प्रमाणमिति करणसाधनोऽयं प्रमाणशब्दः । करणं च साधकतमं तमबर्थश्चातिशयः । स चापेक्षिकः साधकान्तरसम्भवे तदितरापेक्षयातिकाय. योगात्किचित्साधकतममुच्यते । सामग्रयाश्चैकत्वात् तदतिरिक्तसाधकान्तरानुपलम्भात् किमपेक्षमस्या अतिशयं ब्रवीषि, अत्रेच्यते-यत एव साधकतमं करणं करणसंनिधानश्च प्रमाणशब्दः तत एव सामग्रयाः प्रमाणत्वं युक्तम् । तद्वयतिरेकेण कारकान्तरे कचिदः पि तमबर्थसंस्पर्शानुपपत्तेः । फलोत्पादाविनाभाविस्वभावत्वमतिशया, स च सामप्रयन्तर्गतस्य न कस्यचिदेकस्य कारणस्य कथयितुं पार्यते सामग्रयास्तु सोऽतिशयः सुवच इति ग्रन्थेनेति शेषः ।