________________
२८
न्यायमअर्याम् - भावानां परस्परपरिहारव्यवस्थितरूपत्वमस्त्येवैषां लाक्षणिको विरोधः, - अपि च क्षणिकत्वे पदार्थानामिदमत्रोपादानकारणमिदं सहकारिकारणमिति विशेषोऽपि दुरवगमः, तथा हि किमिदमुपादानं नाम ? किं स्वसंतानविनाशेन बीजादिवत्कार्यजननमुपादानमुत स्वविशेषसमर्पणेनोत्पादकमिति, यदि पूर्वः पक्षः, परलोकचर्चा चार्वाकवदुपेक्षिता स्यात् ज्ञानसन्तानविनाशेन ज्ञानान्तरारम्भप्रसङ्गात् , स्वविशेषार्पणपक्षेऽपि सर्वविशेषार्पणं स्यात्कतिपयविर शेषार्पणं वा, सर्वविशेषार्पणे निर्विकल्पकस्य नोपादानकारणं स्यात् , . ,
- लिङ्गदर्शनजन्या च प्रतिबन्धस्मृतिः(१) कथम् । - कथं वा रसविज्ञानं रूपज्ञानादनन्तरम् ।। सन्तानभूयस्त्वाद्भविष्यतीति चेन्नैकप्रमात्रधीनप्रतिसन्धानोपनिबन्धनव्यक हारप्रतिबन्धविप्लवप्रसङ्गात्, नित्यमेकमात्मानमन्तरेण सन्तानकतायामपितावदसौ व्यवहारो नावकल्पते किमुतैकत्रैव देवदत्ते सन्तानभूयस्त्वे सतीति, कति पयविशेषार्पणेन तु यधुपादानता, तदानी रूपमपि ज्ञानोपादानकारणतां प्रतिपद्यते तस्मान्नोपादानं नाम किंचित्, तन्निरासे च तद्वैलक्षण्यलक्ष्यमाणस्वरूपस्य सहकारिणोऽपि व्युदासो वेदितव्यः, अपि च......प्रतिक्षिपसि तत्पक्षे सर्वथा सहकारिणम् ।
भिन्नाभिन्नोपकारादिविकल्पास्त्वत्प्रकल्पिताः ।। सहकारिप्रतिक्षेपकारिण: काधुना गताः। आं ज्ञातं युक्तिशक्त्यैव युष्माभिरुपकल्पितः ।
दोषो न बाधते युष्मान मन्त्रोत्थापितसर्पवत् ।। -: अथ वा तिष्ठतु तावदुपादानसहकारिकारणभाव एव(२)भदन्तसिद्धान्ते दुरुप्रपादः, परोत्पत्तावव्याप्रियमाणमेव यदि कारणमुच्यते सर्व सर्वस्य कारणं स्यात्,
न चालब्धात्मनस्तस्य व्यापारः परजन्मनि ।
लब्धात्मनस्तु व्यापार स्थितिः सिद्धा क्षणान्तरे ॥ अथ ब्रूयादिदं प्रतीत्येदं प्रतीयते इतीदंप्रत्ययतामात्रमेव कार्यकारणभाव इति, तथाऽपि लब्धात्मनः क्षणस्य प्रतीतिरिति द्वितीय क्षणावस्थानमपरिहार्यमेव,
न चानन्तर्यमात्रण कार्यकारणताग्रहः । . अहेतुफलभावेऽपि तथाऽऽनन्तर्यदर्शनात् ।।
व्यापारस्तु परोत्पत्तो नास्त्येव क्षणभनिनः । - न वर्तमानकालस्य न भूतस्य न भाविनः ।। अथ मन्येथा-यथा तुलान्तयोनामोन्नामौ भवत एवं पूर्वोत्तरयोः क्षणयो - (१) प्रतिबन्धस्मृति:-व्याप्तिस्मृतिः। ( . ) भद-तसिद्धान्त-बौद्ध सिद्धान्ते ।