________________
शरीरस्येच्छाऽऽद्याश्रयत्वानुपपत्तिः। २७ चानेककार्यमेकमुच्यते तदस्य कारणभेदोपनतस्वभावनानात्वयोगादेकत्वमेव तावद्विरुध्यते, अन्यथात्वे हि न कारणाधीनं भावानां रूपमित्याकस्मिकत्वप्रसङ्गः, कारणभेदोपपादितनानात्वस्यापि यदि वैकत्वं तदस्य नानाकालयोगिनो. ऽप्येकत्वं स्यात् , असत्त्वं भिन्नस्वभावस्य वस्तुन इति पूर्ववद्वक्तव्यम् , लोच. नालोकमनस्कारादिकारणभेदात , कार्यमप्येकरूपं ज्ञानमिति चेन्न, तस्य भव. न्मते विषयाकारग्राहकत्वस्वसंवेदनरूपभेदान्निराकारज्ञानवादिनो हि बौद्धस्य प्रतिकर्मव्यवस्थानमिष्यते जनकम्य कर्मणः प्रतिभासे स्थैर्यप्रसङ्गादेकसामग्य. धीनत्वपक्षस्यासंभवात् , संभवेऽपि प्रायनियमनिमित्तत्त्वाभावादिति। ___ अथोच्यते-किमनभ्युपगतपक्षोपमर्दनेन बहुभ्यो बहुसंभव इत्येष एव नः पक्षः, सन्तानवृत्त्या वर्तमानपूर्वसामग्रीसारूप्यमुत्तरसामग्रीमारभते विजा. तीयकरणानुप्रवेशे तु विरूपम-इति, । अथ केयं सामग्री नाम ? न समग्रेभ्यो भिन्ना पृथगनुपलस्भादव्यतिरेके तु समग्र एव सामग्री, तत्र पूर्वसमुदायेनोत्तरसमुदायारम्भे तदन्तर्गतं समुदायिनमेकमेव एक उत्पादयेदेकं वा संभूयेति, तत्राद्ये पक्षे सैवेयमेकस्मादेकोत्पत्तिरुक्ता स्यात्सा च प्रतिषिद्धा, ___ अथैकैकफलसमुदायिनिष्पत्तौ सर्वसमुदायिनं व्यापारयेत् , क्रमेण वा यौगपद्येन वा ? तत्र क्रमपक्षे क्षणिकत्वहानिः, ये हि तत्र पञ्चदश समुदायिनः क्षणं तत्र वर्तन्ते ते तत एक तमुत्पाद्य पुनरपरमारभेरन् पुनरन्यमिति तावत्कालप्र. तीक्षणादक्षणिकत्वम् , ___अथ युगपदेव सर्वनिष्पत्तौ सर्वे व्याप्रियन्ते, तर्हि(१)निकरुम्बरूपादेव कारयादुत्पन्नमिति कारणविवेकनियमाभावाद्रूपरसादिप्रविभागो न स्यात् , इदं. रूपमेष रस इति कथं निश्चीयते, चित्रमुत्पादितमिति सवै रूपं स्यात्सों रसो, यद्वा न रूपं न रसोऽन्यदेव किं चिद्वस्त्वन्तरं स्यात् ,
अथोच्यते-यद्यपि रूपरसादिसामग्री तत्सामप्रया एव जनिका तथाऽपिक चित्किंचिदुपादानकारणमिति तत्सहकारिकारणं, तत्र रूपक्षणनिष्पत्तौ रूपस्योपादानकारणत्वादितरेषां च सहकारिकारणत्वान्न पदार्थसंकर-इति, एतद-, युक्तं सर्वथा कारणत्वानपायात्, अपि च येन रूपेण रूपस्य रूपं प्रत्युपादानकारणता तेनैव यदि रसं प्रति सहकारिकारणता तदा पुनरपि रूपरसयोरविशेषः,
__ अथान्येन रूपेण रूपस्य रूपोपादानताऽन्येन च रससहकारितेति, तर्हि स्वभावभेदान्नानात्वं, नानात्वे त्वस्थैर्यमसत्त्वं वेत्युक्तम् ,
__ अथ नास्त्येतयाः किंचिद्विरुद्धत्वं स्वभावयाः ।
कथं बौद्धगृहे जातस्त्वमेवमतिमापसे ।। (१) निकुरुम्बरूपात्-समुदायरूपात् ।