________________
न्यायमञ्जर्यांम्
एवं च बाधकाभावपर्येषण (१) परायणम् । न सत्त्वग्राहकं ज्ञा (मा)नं स्वतः प्रामाण्यमर्हति ॥ सत्त्वे च संशयोऽप्यस्ति सकलप्राणिसाक्षिकः । उपलब्धिव्यवस्थात (२) इत्येवं वर्णयिष्यते ॥ अर्थक्रियासमर्थस्य त्वदुक्तं सत्त्वमस्तु वा । तदपि व्याप्तिशून्यत्वान्न हेतुर्गन्धवत्त्ववत् ॥ क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव, सोऽपि हि । क्रमेण युगपद्वाऽपि न कार्यकरणे नमः ॥ क्षणिकस्य क्रमः कीदृग्युगपत्करणेषु नः । एकवस्तु क्रमस्यापि रूपभेदः प्रसज्यते ॥ कार्याण्येकेन रूपेण भिन्नानि जनयेत्कथम् । रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत् ॥ स्थिते च वस्तुसद्भावे क्षणिकत्वं परीक्ष्यते । तदसत्त्वे तु तच्चिन्ता व्योम्नि (३) रोमन्थकेलिवत् ॥ ज्ञाने क्षणिक चिन्ता चेत्किं तस्यापि पराकृतौ । वदन्त्येतानि शास्त्राणि ज्ञेयाभावे च तत्कुतः ॥
अपि च- क्षणिकत्वपक्षे किमेकस्मादेकोत्पादः उत बहुभ्य एकोत्पत्तिरकस्मादने कनिष्पत्तिराहो बहुभ्यो बहुसंभव इति परीक्षणीयम्, न तावदेकस्मादेकोत्पत्तिरलौकिकत्वात्, एकस्माद्यग्नेर्भस्म धूमेन्धनविकाराद्यनेक कार्योंत्पाददर्शनात् कार्यसिद्धये च सर्व सहकारिसन्निधापनप्रयत्नदर्शनात् 'नैकं किंचिदेकंजनकम्' इति ग्रन्थविरोधाच्च, एतेन तृतीयः पक्षों निरस्त एकस्मादनेकनि• ष्पत्तिरिति, एकश्च नैकं जनयत्क्रमेण जनयेद्युगपद्वा ? न क्रमेण स्थैर्यप्रसङ्गात्, न युगपददृष्टत्वात्, एकस्य चानेककार्यकरणशक्तियोगे तद्भेदान्नानात्वप्रसङ्गः, विरुद्धधर्मयोगेऽपि यदि चैकत्वमिष्यते ।
अनेक क्षणयोगेऽपि भाव एकोऽभ्युपेयताम् ॥
२६
अथ बहुभ्य एकोत्पादनमिति पक्ष आश्रीयते, तद्वक्तव्यं किमेतदेकं कार्य. कैर्वा बहुभिरुत्पाद्यते इति ? न ह्यस्माकमिव भवतामने कावयवनिवहनिर्मितमवयविस्वरूपं कार्यमस्ति, संचितैः संचिता एव जन्यन्त इत्यभ्युपगमाद्, यदि रिक एव सपुत्रा वयमपुत्रा वयमिति व्यवहारो न मुख्यः अबाधितसद्बुद्धिविषयत्वरूपसत्त्वस्य बाधितसद्बुद्धिविषयत्वरूपासत्त्वस्य चाभावादिति भावः ।
( १ ) उपलब्धीति । समाननेकधर्मोपत्तेरिति सूत्रे इत्यर्थः ।
(२) पर्येषणम् - अन्वेषणम् |
( ३ ) रोमन्थकेलिः - चर्वितचर्वणम् । व्योम्नश्चवर्णासम्भवादित्यर्थः ।