________________
आत्मन्याक्षेपः। तदेवमुपपन्नेयं गृह्यतां क्षणभङ्गिता। त्यज्यतां दीर्घसंसारकारिणः स्थिरताग्रह:(१) ।।
क्षणभङ्गनिरासः। अत्राभिधीयते नैव (२)प्रमाणद्वयमप्यदः । भावानां क्षणभङ्गित्वमुपपादयितुं क्षमम ।। अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते । तदसत्कूटहेमादि(३)व्यभिचारावधारणात् ।। किं त्वबाधितसबुद्धिगम्यता सत्त्वमिष्यते ।
सदसद्वयपदेशस्तु (४)पुत्रादावौपचारिकः ।। (१) अयन्तावदत्र क्षणभङ्गवादिमतनिष्कर्षः ।
अर्थक्रियाकारित्वं सत्त्वं तच्च क्रमाक्रमाभ्यां व्याप्तम् क्रमाक्रमौ च क्षणिकत्वे एवं सम्भवतः न तु स्थायित्वे ।।
तथाहि-स्थायी पदार्थः सर्वाः क्रिया युगपत्कर्तुं न प्रभवति तथा सति द्वितीयक्षण कृत्याभावात् अर्थक्रियाकारित्वाभावादपलक्षणापत्तेः; नापि क्रमः सम्भवति स्थायी भावो हि सर्वार्थक्रियासमर्थः किमिति कांचिदेवारभते नान्यां समर्थस्य विलम्ब कारणाभा. वात् । नच सहकार्यपेक्षया विलम्बत इति वाच्यम् , अकिञ्चित्कराश्चेत्सहकारिणस्तदाऽ. नपेक्ष्याः, किञ्चित्कराश्चेत्तदा तैरेव क्रियते ते एव कारणं तदनन्तरं कार्यनिष्पत्तः, त. स्मात् नाक्षणिकस्य सत्ता सम्भवतीति सन्मानानुबन्धित्वं क्षणिकत्वस्य, - किञ्च यद्येषामवश्यंभावि न तत्र हेत्वन्तरापेक्षा कृतकानां च भावानामवश्यंभावी विनाशः तेन सिद्धं घटादीनां क्षणिकत्वम् , तथाहि-ध्रुवभावित्वं हि हेत्वन्तरानपेक्षि. त्वव्याप्तमग्न्युष्णत्वादिषूपलब्धमिति प्रकृते विनाशस्य ध्रुवभाविता सापेक्षत्वं प्रति. क्षिपति निरपेक्षश्च विनाशः स्वाभाविको जन्मान्तरमेव भवतीति सिद्धः क्षणभङ्गः ।
किञ्च प्रयत्नरक्षितानामपि घटादीनां मुसलादिप्रहारमन्तरैव कियतापि कालेन अव. यवविश्लेषवशेन विनाश उपलभ्यते स चायमुत्पत्तिप्रभृति किञ्चित्किञ्चिदन्यथात्वमन्तरेण नोपपद्यते, अभिनवपुराणावस्थयोश्च घटयोः प्रत्यक्षेणैवान्यथात्वमुपलभ्यते न चैकल्य घटस्य ननारूपत्वं सम्भवति नानात्वैकत्वयोर्विरोधात तस्मात्प्रतिक्षणमन्यत्वं घटादेरिति क्षणिकत्वसिद्धिरित्यलम् ।। .(२) प्रमाणद्वर्य-प्रत्यक्षमनुमान चेत्यर्थः ।
(३) कूटहेम-कृत्रिमहेम।
(४) ननु अर्थक्रियासामर्थ्यमेव सत्त्वमत एव सत्यपि पुन्ने तत्कार्यादर्शनादपुत्रा वयमिति व्यपदिशन्ति लौकिकाः पुत्रादन्यस्मिन् पुत्र कार्यकारिणि सपुत्रा वयमिति च बते तस्मादबाधितसदबुद्धिषयत्वं न सत्त्वमित्यत आह-पुत्रादाविति । औपचा.
४ न्या०