________________
।
न्यायमअर्याम् मेवम्-बुद्धरदीर्घकालत्वाज्ज्ञानान्तरोत्पादन एवासावित्यवधारयत्वायुष्मान , . तस्माद्यथैव सन्तानवृत्त्या ज्ञानक्षणोदयः ।
तथैवोत्पाद्यतामेष स्तम्भक्षणपरम्परा ॥ सोऽयमविच्छिन्नदृष्टीनामत्रुटितपदार्थसत्ताग्रहणाभिमान इत्थमुत्थितः,
स्थिरेणापि न बोधेन दीर्घग्राहस्थितिग्रहः । न ह्यसन्निहितग्राहि प्रत्यक्षमिति वर्णितम् ।। तत्काले सन्निधिर्नास्ति क्षणयोर्भूतभाविनोः । वर्तमानक्षणश्चैको न दीर्घत्वं प्रपद्यते ।। तेन बुद्धिस्थिरत्वेऽपि स्थैर्यमर्थस्य दुर्वचम् ।
न त्वनन्तरया नीत्या तस्या अपि चिरं स्थितिः ।। साऽपि हि स्वसंवेद्यत्वादेकक्षणपरीतैव प्रकाशत इति तस्मात्क्षणिकग्राहि प्रत्यक्षमिति सिद्धम् ।
___ क्षणिकत्वेऽनुमानस्याबाधकत्वकथनम् । ननु स्थैर्य पदार्थानामनुमानात्प्रतीयते । अन्वयव्यतिरेकाभ्यां मुद्गरादिविनाशकः ।। निश्चीयते घटादीनां तेन पूर्व तदागमात् ।
विनाशरहितत्वेन सिद्धयत्येषामवस्थितिः ।। . नानुपलम्भव्यतिरिक्तस्य हेतुमतो विनाशस्यानुपपत्तेरुपलम्भ एवास्तित्व. . भावानामनुपलम्भाच्च नास्तित्वं, न च घटानुपलब्धिमुद्गरादिकार्या, ततः प्रा. गपि भावात् ,
ननु दृशानुपलब्धेरसत्त्वनिश्चयः स च कपालकाल एव घटस्यावकल्पते मध्ये तु दर्शनमन्यथाऽपि स्यादिति नादर्शनमात्रमेव नास्तित्वं ? मैवम्-त्वदभिः मतोऽपि मध्ये ऽपि दृश्यस्यैव घटस्यानुपलम्भनम् , तद्वा कपालकाले ऽपि सवेषामिति का प्रमा ? यदह न वेद्मि, तत्परोऽपि नैवं वेत्ति चेत्तर्हि मध्येऽपि घटं सर्व एव न पश्येयुरिति नास्त्येवासौ, कपालीभूतघटवत् , अपि च- ।
यदि यत्त्वं न जानासि तदन्योऽपि न गम्यते ।
स्वजायाजघनस्पर्शसुखमप्यधिगच्छतु ।। तदलं ते परगृहवृत्तान्तचिन्तया, यत्पश्यसि तदस्तीति जानीहि यन्न पश्यसि तन्नास्तीति विद्धि, एवमनुलम्भ एव भावानां विनाश इति न तस्य मुद्गरादिकार्यत्वमतोऽनुमानमपि न स्थैर्यसाधकम् , तस्माद्यथोक्तक्रमेण प्रत्यक्षमेव क्षणिकपदार्थपरिच्छेत्रिति स्थितम् ,
स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृता । क्षणिकत्वेऽपि कथितः कार्यकारणभावतः ।।