________________
प्रत्यक्षं क्षणिकत्वम् । अथ वर्तमानानुप्रवेशेन भूतभाविनोः कालयोहणं मन्यसे तत्र वर्तमाना. नुप्रवेशाद्वर्तमान एव गृहीतः स्यान भूतो भावी वा, अथ न कश्चिदेव काल: क चिद्गह्यते, अर्थ एव प्रकाश्यः केवल इति,
तदयुक्तं, तदवच्छिन्नभावप्रतिभासस्य भवद्भिरेवाभ्युपगमात ,
ननु कोऽयं कालो नाम शाक्यानाम् ? न कश्चिद्वास्तवः, कि काल्पनिक एव व्यवहारः
सर्वथेन्द्रियजं ज्ञानं वर्तमानकगोचरम् । पूर्वापरदशास्पर्शकौशलं नावलम्बते॥ वर्तमानः कियान्काल एक एव क्षणस्ततः ।
पूर्वः क्षणोऽतीततां स्पृशत्युत्तरस्त्वनागतताम् ।। ननु पचति पठतीति वर्तमनोऽपि वितत एव कालः प्रतीयते ? नैतत्सारम्
न ह्यस्ति कालावयवी नानाक्षणगणात्मकः ।
वर्तमानक्षणो दीर्घ इति बालिशभाषितम् ।। क्षणसमुदायात्मकत्वं तु नानारूपत्वमेव तस्य भवेत, अतीतानागतक्षणात्पूर्वमूच वा तदस्तित्वान्नास्तित्वमपि न गृहीतमेवेति कथं क्षणिकत्वम् ? क. एवमाह न गृहीतं नास्तित्वमनुपलब्ध एव नास्तित्वव्यवहारात् , उपलम्भो हि भवेन्नासत्ताऽनुपलम्भाच नास्तित्वम् , दर्शनादर्शने एव सदसत्त्वयोर्लक्षणम् ; तस्मान्क्षणान्तरं तदनुपलम्भाद् नास्तित्वमेवेत्येवं क्षणिकत्वग्राहि प्रत्यक्षमिति स्थितम,
ननु च प्रत्यभिज्ञातो दीर्घकालत्वनिश्चयः।
किमद्यापि न मुक्तोऽसि तत्प्रामाण्यकुतृष्णया । परीक्षितं हि तस्याः स्वरूपं कार्य कारणं च,
न शक्नोतीव सा स्थैर्यमुपपादयितुं निजम् ॥ . न पूर्वी नोत्तरं ज्ञानं ग्राहि कालान्तरस्थितेः ।
तदिदं बोध्यमानोऽपि रागान्धो नावबुद्धयते ॥ पूर्व हि ज्ञानं तत्कालमेव उत्तरमपि स्वकालमेव वस्तु गहाति, मध्ये तु नास्त्येव ग्रहणमग्रहणमेव मध्यमाहुः,
नन्वविच्छिन्नदृष्टीनां न हि त्रुट्यदवस्थितिः ।
स्तम्भादिरवभातीति कथमेतस्य भङ्गिता॥ नैतदेवम् , तत्राप्येकक्षणवृत्तित्वाज्ज्ञानस्य, क्षणान्तरे तु ज्ञानमेव नास्ति, कस्य विच्छिन्नसत्ता, कस्यात्रुटितसत्ता, कस्य वा बोधकम् ?
नन्वस्त्येव क्षणान्तरे तु ज्ञानमविच्छिन्नत्वाद् दृष्टेरिति चेद्,