________________
न्यायमअर्याम्
यथा हि
नीलाभावाविनाभूतलौहिताद्यपसारणम् ।
कुर्वता नीलबोधेन नीलं भवति निश्चितम् ॥ तद्वदिहापि
तदभावाविनाभूतस्वस्वकालाद्यपोहनम् ।
वेदयन्वर्तमानार्थज्ञानं तग्राहिता भवेत् ॥ एतेन पूर्वज्ञानविशिष्टार्थग्राहित्वं प्रत्यभिज्ञायाः प्रत्युक्तम् ,
पूर्वज्ञानस्येदानीमसत्त्वेन विशेषणत्वानुपपत्तः, अगृहीतविशेषणायाश्च विशिष्टबुद्धेरभावाद्, अर्थोपजननापायरहितवस्तुस्वरूपग्राहिणी प्रत्यभिज्ञत्युच्यते,
तदप्ययुक्तम् , वर्तमानकनिष्ठतायाः प्रदर्शितत्वात् , भावानां च विनाशजन्मनोवर्तमानोवा कालः स्यादन्यो वा ? तदन्यस्तावद् ग्रहीतुमशक्य इत्युक्तम् , वर्तमाने तु तदुत्पादविनाशकाले कथ्यमाने तद्ग्रहणात्तदविनाभूतौ भावानामु. त्पादविनाशावपि गृहीतौ स्याताम् ,
सेयं तपस्विनी स्थैर्य प्रसाधयितुमागता।
प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाप्य गमिष्यति(१) ॥ अपि च लूनपुनर्जातकेशनखादिषु सादृश्यदृश्यमानप्रत्यभिज्ञा स्तम्भादिध्वपि तद्वदेव न स्थिरतामुपपादयेत्, तत्र बाधकयोगादिति चेदिहाप्युक्त एव बाधकः परस्परविरोधिभूतादिकालसमावेशस्यैकत्र दुर्घटत्वादिति, तस्मात्प्रत्यभिज्ञाप्रत्ययस्य बाधकस्याभावात्सिद्धमानुमानिकं भावानां क्षणिकत्वम् ।
क्षणिकत्वस्य प्रत्यक्षगम्यत्वम् । अपरे पनः प्रत्यक्षगम्यमेव क्षणिकत्वमाचक्षते
नातीतानागतौ कालौ विचारयति चाक्षुषम् ।
वर्तमानक्षणश्चैक इति तनिष्ठमेव तत् ॥ यदि वर्तमानातिरिक्तग्राहि प्रत्यक्षमिष्यते तद्वक्तव्यं किं पूर्व विज्ञानमनागतकालावच्छिन्नपदार्थग्रहणनिपुणम् , अथोत्तरज्ञानमतीतकालालिङ्गितभावाकलनकुशलमिति ? तत्राद्यज्ञानसमुपजननसमये तत्तत्क्षणातिरिक्तभाविकालासन्निधा. नान्न तेन तद्ग्रहणम् , अनागतग्रहणे वा कथमागामिजन्मग्रहणं न स्यादुत्तरज्ञानप्रसवसमयेऽपि भूतकालस्य भूतत्वादेव न सन्निधानमसन्निहितभूतकालग्रहणे वा पूर्वजन्मग्रहणप्रसङ्गः, (१) अमुमर्थमेवाह शास्त्रदीपिकाकार:
विवादाध्यासिता भावाः सत्त्वात्क्षणविनाशिनः । दीपवत्प्रत्यभिज्ञापि स्यात्प्रदीपवदेव नः ॥ इत्यनेन ।