________________
प्रत्यभिज्ञानिरासः .
प्रत्यभिज्ञायाः ज्ञणभङ्गपक्षेऽपि सहशपरापरक्षणगणप्रसवप्रतारितमतीनाम: पलभ्यमानत्वात् , एवं च सति
यदि हि व्याप्तिशैथिल्यं सिद्धं कि प्रत्यभिज्ञया ।
अथ न व्याप्तिशैथिल्यं सिद्धं कि प्रत्यभिज्ञया ।। न च प्रत्यभिज्ञव व्याप्तिविप्लवकारणमितरेतराश्रयप्रसङ्गात् , व्याप्तिविप्लवे. नानुमाने न्यग्भूते प्रत्यभिज्ञा प्रमाणं भवति तस्यां च प्रमाणीभूतायां व्याप्तिवै. धुयोदनुमानाप्रामाण्यम् , अनुमानप्रामाण्येऽपि समानो दोष इति चेन्न, तस्य प्रतिबन्धमहिम्नैव प्रामाण्यसिद्धः, न हि तस्य प्रतिभिज्ञादौर्बल्यनिबन्धनं प्रामाण्यम् ।
प्रत्यभिज्ञास्वरूपनिरूपणम् । अपि च केयं प्रत्यभिज्ञा नामेति नैपुण्येन निरूपयितुमर्हन्त्यत्र भवन्तः, किंस एवायं कुम्भ इत्येकं ज्ञानमुत द्वे एते स्मृत्यनुभवज्ञाने ? यद्येकं तदस्य कारणं . वाच्यं यत उत्पद्यते? नेन्द्रियं स इत्यस्मिन्नंशे तस्यासामर्थ्यात् , न संस्कारस्तस्याप्ययमित्यंशे कौशलाभावात् ,
उभाभ्यां न च सम्भूय तज्ज्ञानमुपजन्यते ।
पृथक् पृथक् स्वकार्ये हि नितिं कौशलं तयोः ।। संस्कारस्य स्मृतिरेव कार्यमिन्द्रियस्यानुभव एव, संभूय न ताभ्यामेकं का. र्यमारभ्यते, न हि मत्पिण्डतन्तुनिवर्त्यमेकं घटपटरूपं कार्यमुपलब्धम् , न चे. न्द्रियं केवलमीदशि कार्ये समथ, यथासन्निहिताकारमात्रग्राह्यविचारकमिन्द्रियं प्रत्यभिज्ञानमातनोतीति विस्मयः ! तस्माद् द्वे एते ज्ञाने, स इति स्मरणप्रयमित्यनुभवः,
स्मतिः स्मर्त्तव्यविषया ग्रहणं ग्राह्यगोचरम् । न तदैक्यपरामशि दृश्यते प्रत्ययान्तरम् ।। यथा निरन्तरोत्पन्ने घटज्ञानपटस्मती। न तुल्यविषये तद्वदेते अपि भविष्यतः ।। यद्वा भवतु नामेदमेकमेव हि वेदनम् । तथाऽपि कीदृशं वस्तु स्पृशतीति परीक्ष्यताम् ।। अतीतकालयुक्तं चेत्स्मरणान्न विशिष्यते । अनागतविशिष्टं चेत्सङ्कल्पप्रायमेव तत् ।। वर्तमानकनिष्ठं चेस्थिरत्वं तर्हि सुस्थितम् । कालत्रयपरीतं चेद्विरोधात्तत्तु दुर्लभम् ।। परस्परपरित्यागव्यवस्थितनिजात्मनाम् । एकत्र न समावेशः कथं चिदुपपद्यते ॥