________________
. न्यायमञ्जर्याम् नामुपगन्तव्या व्यापारावेशवशेन वा श्रोत्रियादिपक्षे, सहकार्यादिसन्निधानापादनेन वा नैयायिकादिपक्षे, कारकत्वं नाम वस्तुनो रूपमेकक्षणवृत्त्येव कार्योत्पत्यैव तत्कल्पनात् , ततः पूर्वमुत्तरकालं वा कारकायोगात् , कारकत्वमेव च परमार्थसदकारकस्य ज्ञानजनकत्वाभावादस्तित्वमपि दुर्वचमतश्च सर्ववादिमिरेव प्रायेण क्षणिकत्वमिदमभ्युपगतमिति यश एव केवलं सौगताः पीतवन्तः, तस्मात्सिद्धं यत्कारकं यच्च सत्तत्क्षणिकमिति,
अतश्च क्षणभङ्गिनो भावाः प्रलयं प्रति हेतुनिरपेक्षत्वात् , भावो हि स्वतो. नश्वरात्मा भवेत्तद्विपरीतो वा
विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः ।
अनश्वरस्वभावेऽपि कृतं प्रलयहेतुभिः । क तर्हि मुद्गरादीनां व्यापार: ? विजातीयसन्ततिजन्मनीति ब्रूमः, अभावस्तु तज्जन्यो न संभवत्येव प्रमाणविरुद्धत्वात् , भावो हि स्वरूपेण न भवति न त्वभावोऽपि भवतीति, स्वरूपं भवनात्मकं चेत्सर्वदेव भवेदेव न न भवेत् , अभावात्मकं तु तदेव न भवेत्परापेक्षाया अभावात् , न हि मुद्गरादिकारणान्तरसापेक्ष: कम्भादेविनाशो भवितुमर्हत्युत्पत्ताविव नाशेऽपि समर्थासमर्थभिन्नाभिन्नोपकारिसहकार्यादिविकल्पकलापानपायात् , .. अथ कतिपयक्षणव्यवहितविनाशस्वभावो भाव इष्यते तर्हि प्राक्तननयेन कदा चिदपि न विनश्येत् , विनाशसमयेऽपि तत्स्वभावानपायेन पुनः कतिपः यक्षणापेक्षणप्रसङ्गात् , अपि च यदाऽपि तेन नष्टव्यं तदाऽप्यस्य न स्वरूपादति . रिक्तः कश्चन विनाशहेतुरवतरति, तच्च स्वरूपाद्यपेक्षणे तस्य तादृशमेवेति तदेव वा नश्यन्न कदा चिद्वा,
अथ मृत्योरपक्रान्तस्तस्य चेत्प्रथमः क्षणः ।
अविनाशिस्वभावत्वादास्तां युगशतान्यपि ।। न चैवमभ्युपगम्यते, तस्मादात्मलाभाविनाभावो भावानां विनाश इति सिद्धः क्षणभङ्गः।
क्षणभङ्गे प्रत्यभिज्ञाया अबाधकत्वकथनम् । यदपि क्षणभङ्गसाधनस्य पदार्थस्थैर्यावसायि प्रत्यभिज्ञानमनुमानस्य बाध. कमभिधीयते, तदपि न पेशलमशिथिलप्रतिबन्धहतौ बाधकस्य निरवकाशत्वात् , उक्तं हि-बाधाविनाभावयोर्विरोधान्नैकत्र समावेश' इति, अनुष्णस्तेजोऽवयवी कृतकत्वादित्यत्रापि प्रतिबन्धवैधुर्य्यमेव साध्यसिद्धिं विरुणद्धि नाध्यक्षबाध्यत्वम् , अथ वा किमनेन निबन्धनेन
अग्निशेत्यानुमानादो युक्तं प्रत्यक्षबाधनम् । तस्य ह्यनन्यथासिद्धरिह त्वेवं न युज्यते ।।