________________
सर्वभावानां क्षणिकत्वम् ।
निविशते(१), अतो यद्यपि कार्ये हेतौ धूमाग्न्योरिव स्वभावहेतावपि वाक चिद् वृक्षत्वशिशपात्वयोरिव पूर्वमिह साध्यसाधनधर्मयोर्ग्रहणं धर्म्यन्तरे न वृत्तं तथाऽपि साध्यधर्मिण्येव व्याप्तिग्रहणमुपपत्स्यते विपक्षव्यावृत्तेः सुपरिनिश्चितत्वात् , यैव च विपक्षाद्यावृत्तिः स एव चास्य हेतोः स्वसाध्येनान्वयः, न ह्येवं संभवति नित्येभ्यश्च व्यावृत्तं सत्त्वं क्षणिकेषु च न निष्ठमिति, तृतीयराश्यभावानिराश्रयत्वानुपपत्तेश्च, तदेवं क चिद्धर्मिणि व्याप्तौ गृहीतायां यदि स एव कदा चित्परं प्रति दृष्टान्तीक्रियते तदैवं नाम भवतु को दोष इति,
ननु व्यापकानुपलब्धेरनुमानमनुमानेन चानुमानस्य व्याप्तिग्रहणे ऽनवस्था?
नानवस्था, तावत्येव पर्यवसानात् , न हि व्यापकानुपलब्धेरनुमानान्तराद्याप्तिनिश्चयः, किं तु प्रत्यक्षविकल्पादेव, तदनया व्याप्तिनिश्चयात्सिद्धमेतद्यत्स. त्तत्क्षणिकमिति, __ अन्ये तु नीत्यन्तरेण व्याप्तिनिश्चयमाचक्षते --विरुद्धयोरेकपरिच्छेदेऽन्यतरनिवृत्तिरवश्यंभाविनी विरुद्धत्वादेव, विरुद्ध च सत्त्वनित्यत्वे पूर्वोक्तयैव नीत्या, (२)सत्त्वं च विस्पष्टमुपलभ्यते भावानामिति तदुपलम्भान्नित्यत्वनिवृत्तिः, नित्यत्वनिवृत्तरेव क्षणिकत्वनिश्चयः, प्रकारान्तराभावाद्,
ननु शीतोष्णयोः पृथगुपलम्भाद्विरोधनिश्चये युक्त एकग्रहणे द्वितीयव्युदासः, इह तु सत्त्वमेवोपलभ्यते न नित्यत्वमिति कथं तद्विरोधादितरव्यावृत्तिः ?
नैष दोषः, पृथगुभयानुपलम्भेऽपि सत्त्वबुद्धयैव नित्यत्वनिराससिद्धः, कथमन्यविषयबुद्धिरन्यमुदस्यति ? उच्यते
द्विचन्द्रदर्शनस्यैकशशभृद्विम्बवेदिनी। धीरतद्विषयत्वेऽपि तद्यवच्छेदकारिणी ।। सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता।
तयोविरोधो युक्त्याऽपि वक्तं न हि न शक्यते ।। तस्मात्सत्त्वप्रतीतेरेव नित्यत्वनिवृत्तिः, सैव च क्षणिकत्वव्याप्तिरिति सिद्धं सत्त्वाक्षणिकत्वम् ।
अपि च सर्वदा कार्यानुत्पादात्कारकावस्था नूनमेकक्षणस्थायिनी भावा
(१) निविशत इति-अयम्भावः सत्त्वमर्थक्रियाकारित्वं न तु सत्तायोगित्वम् सामान्यादौ सत्तायोगित्वाभावेनासत्त्वप्रसङ्गात , तच क्रमयोगपद्याभ्यां व्याप्तं ते च नित्येषु न सम्भवतः इतिसत्त्वव्यापकयोः क्रमयोगपद्ययोनित्येषु निवृत्त्या सत्त्वमपि निवतते इति क्षणिकेष्वेव सत्त्वं पर्यवस्यताति ।
(२) नीत्येति । सत्त्वव्यापकयोः क्रायोगपद्ययोनित्ये निवृत्त्या सत्त्वस्यापि निवृत्तिरिति रीत्येत्यर्थः । तेन सत्त्वनित्ययोविरुद्धत्वमिति भावः ।