________________
न्यायमञ्जर्याम् ण ? सहकार्यपेक्षया करोतीति चेद् न-असमर्थस्य सहकारिणाऽपि सामर्थ्याधानानुपपत्तेः, समर्थस्य स्वत एव सामर्थ्य सति सहकारित्ववैयर्थ्यात् , सहकारिसनिधानेऽपि चास्य स्वरूपेण वा कर्तृत्वं स्यात्पररूपेण वा ? स्वरूपस्य च प्रागपि भावात्तस्य च कारकत्वात् किं सहकारिणा, पररूपेण कर्तृत्वे पूर्वरूपपरित्यागात्त. दूपान्तरापत्तश्च क्षणिकत्वमुपपद्यते, एवं सहकार्यपि समर्थासमर्थतया विकल्प. नीयः, स्वतोऽपि, सामथ्य किं परोपकरणदैन्येन, असमर्थस्य तु सचिवः किमागत्यापि सर्वत्र कार्ये साचिव्यमुपगच्छेत् ? - किंचित्करश्चेद्वक्तव्यं किं करोतीति, उपकारमिति चेत्स उपक्रियमाणाद्भिन्नोऽभिन्नो वा ? अभिन्नश्चत्स एव कृतः स्यात् , भेदे तस्य किमायातं. यदसौ न पूर्ववदास्ते, कार्यादपि भेदाभेदाभ्यां चिन्त्य उपकारः, न कार्याद्भिन्नो. ऽनुपलम्भाद् द्वयकारणभावाच्च, कार्यादव्य तरिक्त तूपकारे सहकारिणा क्रियमाणे कार्यमेव तेन कृतं स्यादिति मूलकारणानर्थक्यम् , ___ ननु चैक एव भावः कारकः स एव हि समर्थस्तदितरपदार्थसन्निधानं तु स्वहेतुबशादुपनतमिति नोपालम्भमर्हति,
नैतद्युक्तमेकस्य कदा चिदपि कारकत्वानुपलब्धेस्तत्सामर्थ्यस्य दुरधिगमत्वात् , एवं ह्यसौ समर्थ उच्यते यद्येकः कदा चित्कार्यमुत्पादयन्दृश्येत न तु विस्मत्यापि दृश्यते,
अथ कार्यस्यायं स्वभावो यदेकस्मानोत्पद्यते कारणं तु शक्तमेवेति ?
तदप्ययुक्तम्-कार्यस्वभावपराधीनत्वेन कारणस्य सामर्थ्य विरहप्रङ्गात् , एवं ह्यसौ समर्थः कथ्येत यदि कार्यस्वभावमनाहत्य स्वतन्त्र एक एव प्रसह्य कार्य जनयेन चैवं दृश्यत इति यत्किचिदेतत् , __ अथ समर्थमेव कारणं तस्य त्वयं स्वभावो यत्सहसैव कार्य न करोति कतिपयक्षणव्यवधाने तु करोतीति, . यद्येवं न कदाचित्कार्योत्पादः स्यात् , कार्योत्पादसमयेऽपि कतिपयक्षणव्यवहितकार्यजननस्वभावानपायात , पुन: कतिपयक्षणाद्यवेक्षणं स्यात् , तेष्वपि कतिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं भवेदिति कदा नाम कार्य जनयेत् ? तदेवमादिदोषोपहतत्वान्न क्रमेण भावानामर्थक्रियासामर्थ्यम् ,
नापि युगपद् , लोके तथा व्यवहारादर्शनात् , युगपत्कृतकस्यापि स्थिरस्य पुनरकरणे हेत्वभावः, पुनश्च कुर्वन्नपि भावः कार्य न तदेव कुर्यात् , कृतस्य करणायोगात , कार्यान्तरकरणे तु स एवायं पुनः क्रमपक्ष आपतेदित्येवं क्रमयोगपद्ये नित्येभ्यः पदार्थेभ्यः निवतेते , ते च निवर्तमाने सत्त्वस्य व्यापके इति सत्त्वं तेभ्य आदायैव निवत्तते , तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहाक्षणिकेष्वेव