________________
१७
सर्वभावानां क्षणिकत्वम् । यगम्यत्वे हि सत्त्वे (१)केशोण्डकादेरपि सत्त्वप्रसङ्गः, सत्तासंबन्धे सत्त्वे सामान्यादीनां तदसंबन्धादसत्त्वं स्याद् , अर्थक्रियासामर्थ्यसत्त्वानुवर्ती च लौकिको. व्यवहारः सत्यपि पुत्रे तत्कार्यादर्शनादपुत्रा वयमिति व्यपदिशन्ति लौकिकाः, पुत्रादन्यस्मिन्नपि तत्कार्यकारिणि सति सपुत्रा वयमिति च ब्रुवते, तस्मादर्थक्रियाकारित्वमेव सत्त्वम् , भवत्वेवं-तस्य तु कुत्र कथं वा क्षणिकत्वेन व्याप्तिग्रहणम् ? कुत्रेति यत्पृच्छसि यत्र रोचते महाभागाय घटे पटे वा गृह्यतां व्याप्तिः, किं साध्यधर्मिण्येव व्याप्ति ग्रहणमुपपद्यते ? धीमन् ! कोऽत्र प्रमादः, न हि दैव. निर्मितः कश्चित्साध्यधर्मी नाम, ग्रहीतुं शक्यते चेद्याप्तिः यत्र तत्र सा गृह्यतामिति, तदुच्यते-भावानां हि सत्त्वं क्षण (क्रम)योगपद्याभ्यां व्याप्तम्,
नित्येषु च पदार्थेषु व्यापकानुपलम्भनात् । तयाप्तमपि सत्त्वं हि बलात्तेभ्यो निवर्त्तते ।। न च राशिस्तृतीयोऽस्ति तेन गत्यन्तरक्षयात् । क्षणिकानेव तान्भावान् सत्त्वं समवलम्बते ।। तच्च स्वग्राहकाद्वोधादसन्दिग्धं प्रतीयते । ज्ञानोत्पत्त्यैव तद्धेतोरमामयें पराकृते ।। असमर्थात्समुत्पादो दृश्यते न हि कस्य चित् । शक्ताशक्तप्रसक्तत्वे तत्र बोधोऽस्ति संशयः ।। अत एव च तज्ज्ञानं प्रमाणं जगदुः स्वतः ।
स्वरूपे शक्तिजत्वे तु संशयादेरसंभवात् ।। किमिदं रजतमुत शुक्तिकेति विशेषांशे संशेरतां नाम प्रमातारः, न तु सामर्थ्य प्रति दोला का चित्संभवति, किमिदं ज्ञानं समथन जनितमुत तदि. तरेणेत्यसमर्थस्य जनकत्वानुपपत्तः, व्यापकानुपलम्भस्यापि व्याप्तिग्राहिणः स्वतःप्रामाण्यम् , संशयविपर्ययोस्तत्राप्यभावात् , ____ कथं पुननित्येषु पदार्थेषु सत्त्वव्यापकयोः क्रमयोगपद्ययोरनुपलम्भः ? उच्यते-नित्यो हि भावः क्रमेण वा कार्य कुर्याद्योगपद्येन वा, परस्परविरहस्थितात्मनां तृतीयप्रकारानुपपत्तेः,
न तावत्क्रमेण, स हि समर्थो वा ऽसमर्थो वा ? समर्थश्चत्क्रमेण कथं समर्थस्य क्षे. पा(२)योगाद् , असमर्थस्त्वसमर्थत्वादेव न करोति किं चिदिति तस्यापि किं क्रमे.
( १ ) चिरकालाध्ययनखिन्नस्योत्थितस्य नीललोहितादिगुणविशिष्टः कश्चिन्नयन. स्याने परिस्फुरति, अथ वा करसंमृदितलोचनरश्मिषु येयं केशपिण्डावस्था स केशोण्डकः, केशसमूहो वा केशोण्डकः, स च मिथ्यैव तस्यापि सत्त्वं स्यादिति भावः ।
(२) क्षेपो विलम्बः ।