________________
न्यायमअर्याम्
ज्ञानेन चैत्यवन्दनादि कर्म कृतं तस्य विनाशान्न तत्फलापभोगा, यस्य च फलो. पभोगः तेन न तत्कर्म कृतमिति, नैष दोषः-कार्यकारणभावस्य नियामकत्वादनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभावप्रवाहः, एष एव च सन्तान इत्युच्यते, तत्कृतश्चायमनुसंधानादिकार्यनियमः, सन्तानानादित्वादविच्छेदाच परलोकोऽपि न क्लिष्टकल्पनः, यद्यपि च सन्तत्यन्तरपतितज्ञानजन्यमपि सन्त. त्यन्तरे ज्ञानं दृश्यते तथाऽपि न तादृशः कार्यकारणभावेन सन्तानव्यवहारः प्रतिसन्धानादिकार्यनिर्वाहो वा किन्तूपादानरूपतद्विशेषणनिबन्धन एवैष निर्वहति नियमः, तस्मिन्नेव सति स्वरूपसन्तानविभागोऽवकल्पते,
स्मृतिवत्परिहर्त्तव्यौ कृतनाशाकृतागमौ।
तत्सन्तानोपसंक्रान्त्या कुसुमे बीजरागवत् ॥ आह च
यस्मिन्नेव च सन्तान आहिता कर्मवासना।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥ _ नित्यस्त्वात्माऽभ्युपगम्यमानो यदि सुखादिजन्मना विकृतमनुभवति तदयं नित्य एव धर्मादिवदुक्तः स्यात् , निर्विकारत्वे तु सताऽसता वा सुखदुः खादिना कर्मफलेन कस्तस्य विशेष इति कर्मवैफल्यमेव, तदुक्तम्-.
वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ॥ इति । तस्मादुत्सज्यतामेष मूर्धाभिषिक्तो प्रथमो मोहः आत्मग्रहो नाम, तन्निवृत्त्या चात्मीयग्रहोऽपि विरंस्यति अहमेव न किं ममेति, तदिदमहंकारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव निर्वाणद्वारमालम्ब्यताम् , तस्य स मार्गः क्षणिकपदार्थनिश्चयः, क्षणिकेषु हि सर्वभावेषु निराश्रयेषु ज्ञानस्याप्याश्रयविरहात्कुतस्त्यमात्मकल्पनमिति ।
___सर्वभावानां क्षणिकत्वम्कथं पुनरष सकलप्रमाऽतीतःक्षणिकपदार्थवादः शक्यते शाक्यैरभ्युपगन्तुम् ?
न खलु क्षणभङ्गित्वे भावानामक्षजा मतिः । न भूमिरनुमानस्य विकल्पनियतस्थितेः । स्मरणप्रत्यभिज्ञाने प्रत्युत स्थैर्यसाधके।
एवं च वञ्चनामात्रमाशुनाशित्वदेशना ॥ ... उच्यते-प्रत्यक्षगम्यं क्षणिकत्वं भवति न भवत्येष करिष्यते विचारः, अनुमानं तु संप्रत्येवमभिधीयते-सत्त्वात्क्षणिकाः पदार्था इति, सत्त्वं तावदर्थक्रियाकारित्वमुच्यते, यथाऽर्थमर्थक्रियासमथै यत्तदेव परमार्थसदिति, सत्प्रत्य