________________
आत्मन्पाक्षेपः।
प्रत्यक्षादिप्रमाणयों व्यवहारः स चात्मना । विना नित्येन नेत्येवं ततस्तस्य प्रकल्पनम् ॥ यत्प्रत्यक्षं प्रत्यभिज्ञास्वभावं ज्ञात्रन्यञ्चत्तस्य न ह्यात्मलाभः । प्रायस्यैक्यं यद्वदर्थस्य तस्मात्सिद्धयत्येवं ग्राहकस्यापि पुंसः॥
अविनाभावग्रहणं लिङ्गज्ञानं तदन्वयस्मरणम् । लिङ्गिप्रमितिरितीदं न बोद्धभेदेऽनुमानं स्यात् ॥ ज्ञाते वनेचरमुखादतिदेशवाक्य दृष्टे मृगे विपिनवत्तिनि गोसदृक्षे । तत्संज्ञतामितिफलं लभते प्रमातृभेदे न चेद मुपमानमितिप्रतिष्ठम् ॥ वर्णानां श्रवणं क्रमेण समयस्मृत्या पदार्थग्रहस्तत्संस्कारजमन्त्यवर्णकलनाकाले तदालोचनम् । आकाक्षादिनिबन्धनान्वयकृतं वाक्यार्थसम्पिण्डनं
ज्ञात्रैकेन विनाऽतिदुर्घटमतो नित्यात्मसिद्धिर्धवम् ॥ मयेदं पूर्वेयुर्विहितमिदमन्येधुरपरं विधातव्यं चेति श्रुतिकृषिवणिज्यादिषु जनाः। यदेवं चेष्टन्ते निपुणमनुसन्धाय तदमी ध्रुवं सर्वावस्थानुगतमवगच्छन्ति पुरुषम् ।।
इत्यादि लक्षणमवादि तदेतदिच्छाद्वेषप्रयत्नसुखदुःखसमाश्रयत्वम् । तत्सजिनं तदिह हेयतया व्यवस्येत्तद्विप्रयुक्तमधिगम्यतया मुमुक्षुः ।।
विज्ञानात्मवादिनः पूर्वपक्षःअथो तथागताः प्राहुः किं पुंसा कल्पितेन वा। ज्ञानमात्रेण पूर्वोक्तो व्यवहारोऽवकल्पते ॥ ज्ञानं किमात्मवन्नित्यं सौगतैरुपगम्यते । प्राग्दर्शितानुसन्धानस्मरणादिक्रियाक्षमम् ॥ ज्ञान बौद्धगृहे तावत्कुतो नित्यं भविष्यति । अन्येऽपि सर्वे संस्काराः क्षणिका इति गृह्यताम् ॥ क्षणिकं चेष्यते कार्य न क चित्किञ्चिदाश्रितम् । स्वतन्त्रं ज्ञानमेवातो नान्यस्तेनाऽनुमीयते ॥
ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः । न वस्त्वन्तरमित्येवं न ततोऽप्यन्यकल्पनम् ।। गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना। न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥ निराश्रयेषु विज्ञानस्कन्धेषु एभागिषु ।।
कथं स्मृत्यादि कार्य वा परलोकोऽपि वा कथम् ।। सत्यपि वा परलोके कथमकृताभ्यागमकृतविप्रणाशौ पराक्रियेते, येन हि