________________
न्यायमअर्याम् आने हि चक्षुषा दृष्टे रसनिष्यन्दसुन्दरे । रसनस्य विकारः स्यानुर्दन्तोदकविप्लवः ।। बहूनामिन्द्रियाणां च भिन्नाभिप्रायता भवेत् ।
तेनैकत्रैव सन्ताने नानाचेतनता भवेत् । अतितुच्छश्चायमिन्द्रियचैतन्यपक्ष इति किमत्र बहु लिख्यते ।
मनश्चैतन्यवादनिरास:ननु मनस्तहीच्छाऽऽदेरधिष्ठानं भविष्यति तद्धि नित्यमेकं सर्वविषयमभौतिकमिति न प्राक्तनदोषैः स्पृश्यते ? उच्यते-मनसोऽपि तदाश्रयत्वमनुपपन्न,कुतो? ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् मनसोहीच्छाऽऽद्याश्रयत्वे ज्ञानादो कर्तृ. त्वात्तस्यापि बाह्यगन्धादिविषयज्ञानायौगपद्यानुपपत्तेस्तद्महणे प्राणाद्यधिष्ठानपटुना केन चिदान्तरसुखदुःखादिविषयप्राहिणा स्मृत्यादिक्रियाकारिणा च क. रणेन भवितव्यमिति तत्रात्मसंज्ञा भवेदात्मनि च कर्तरि मनः संझेति,
न चास्य बाह्यकरणः सिध्यन्ति सकलाः क्रियाः। न च स्मृतिसुखेच्छाऽऽदो (१)शक्ताः स्युश्चक्षरादयः ।।
चैतन्याश्रयतयाऽऽत्मन: साधनम्तेनेच्छासुखकृतिदुःखवेदनानामाधारो न खलु मनो न चेन्द्रियाणि । देहोऽपि व्रजति न तत्समाश्रयत्वं तेनान्यं पुरुषमतः प्रकल्पयामः॥
दिक्प्रदर्शनमिदं कृतमिच्छाद्वेषयनसुखदुःखमतीनाम् । लिङ्गताकथनमात्मनि तत्र त्वस्ति हेतुनिवहो बहुरन्यः । कर्तृप्रयोज्यता खलु दृष्टा दात्रादिकरणजातस्य । त्वकश्रोत्राद्यपि करणं तथैव का प्रयुज्येत ॥ हिताहितप्राप्तिविमर्शयोग्या चेष्टा च दृष्टा नियता शरीरे । तच्चेतनाधिष्ठितताममुष्य गन्त्रीरथादेरिव. कल्पयामः ॥ प्राणादिमारुतानामन्तश्वलतां चलाचलगतीनाम् । सहजनिजकर्मविकृतो कारणमनुमीयते किश्चित् ।। इदं च देहादितरत्र दुर्लभं निरीक्ष्य वृद्धिक्षतभग्नरोहणम् ।
ध्रुवं ग्रहस्येव गतिः प्रकल्पते निजाश्रमक्षेमपरायणो नरः॥ युक्तं च नैवं मनसा ह्यनधिष्ठितानां स्वार्थप्रमाकरणकौशलमिन्द्रियाणाम् । स्यात्कश्चिदिष्टविषयानुगुणप्रयत्नो यत्प्रेरितं सदधितिष्ठति तानि चेतः॥
ज्ञानप्रयत्नादिमतोऽथ कम्य दृष्टान्तता स्यात्करणादिलिने ।
काय च नः पर्यनुयोग एष सामान्यमात्रस्य तवापि सिद्धः ॥ (१) प्रकानिचक्षुरादीनि १० पु. पा. ।