________________
आत्मन्याक्षेपः। यत्तु मदशक्तिवदित्युक्तम् तत्र मदशक्तेदृष्टत्वादभ्युपगमो न ज्ञानस्य तत्र दर्शनम् ।
. भूतचैतन्यवादनिरास:ननु ज्ञानमपि तदन्वयव्यतिरेकानुविधायि प्रायेण दृश्यते भूतेष्वनपानादयुपयोगपुष्टेषु पट्वी चेतना भवति तद्विपर्यये विपर्ययः, ब्राह्मीघृतादयपयोगसंस्कृते च कुमारशरीरे पटुप्रज्ञता जायते, वर्षासु च स्वेदादिनाऽतिदवीयसैव कालेन दध्याद्यवयवा एव चलन्तः पूतनादिक्रिमिरूपा उपलभ्यन्ते, चैतन्यगुरुलाघवव्यवहारोऽपि भूतातिशयसदसत्त्वकृतो. भविष्यतीति भूतचैतन्यवादपक्ष एव युक्तियुक्तो लक्ष्यते,
नैतच्चारु--चेष्टेन्द्रियार्थाश्रयः शरीरं(१) वक्ष्यते तत्र तदनुग्रहादिन्द्रियानुग्रहे सति पटुकरणत्वाद्विषयग्रहणपाटवं, न हि विषयग्रहणादन्यच्चैतन्यं नाम, एतेन ब्राह्मीघतोपयोगोऽपि व्याख्यातः, व्यापकत्वादात्मनः सर्वत्र भावे सति भोगायतनत्वेन कदा चित्केषां चिद् भूतावयवानां समुपादानतः शुक्रशोणितादिव्रद्दध्यव. यवान्विकृतानुपादास्यते तथा च स्वेदजादिभेदे बहुभेदो भूतसर्गः प्रवर्त्तते विचित्रकर्मपरिपाकापेक्षयेति यत्किंचिदेतत् , तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम् ।
इन्द्रियचैतन्यवादनिरास:नापीन्द्रियाणि यथोक्तस्य ज्ञानादेः कार्यस्याश्रयतां प्रतिपद्यन्ते दर्शनस्पर्शनाभ्यामेकार्थग्रहणाद्(२) यमर्थमद्राक्षं चक्षुषा तमेवैतहि स्पर्शनेन स्पृशामि यमस्पाक्ष स्पर्शनेन तमधुना चक्षुषा पश्यामीति कतरदिन्द्रियमेवमनुसन्धीत न चक्षु स्पर्शाविषयत्वात् , न त्वगिन्द्रियं रूपाविषयत्वात्तस्मादुभयविषयग्रहणसमथः कश्चिदनुसंधाताऽस्तीति स इन्द्रियव्यतिरिक्तो गम्यते,
अमुनैव प्रसङ्गेन रूपादिव्यतिरेकिणः । वक्तव्या गुणिनः सिद्धिरेतबुद्धिनिबन्धना ॥ रूपांदिषु स्वतन्त्रेषु न ह्येष प्रत्ययो भवेत्।
न रूपमस्य विषयो न स्पर्शो न च तद् द्वयम् ॥ ... अतश्च न गुणव्यतिरिक्तो गुणी भेदेनाग्रहणादित्यसिद्धः परोक्तो हेतुः भेदग्रहणस्य दर्शितत्वात् , वृत्तविकल्पादीनां तु प्रतिसमाधानं सामान्यसमर्थः नावसरे कथितमवयविसिद्धौ वक्ष्यते चेत्यलमवान्तरचिन्तया, इतश्च नेन्द्रियाणां चैतन्यं करणत्वाद्वास्यादिवत्, भौतिकानि चेन्द्रियाणि वर्णयिष्यामः, तेन य एष भूतचैतन्यनिराकरणे न्यायो वर्णितः स तेष्वपि योजनीयोऽतश्चैवमिन्द्रियान्तरविकारात् ,(३)
(१) गौतमसूत्र अ० १ आ० १ सू० ११ । (२) गौ० सू० अ० ३ आ० १ सू० १ (३) गौ० सू० अ० ३ आ०१ सू० १२