________________
२५
न्यायमअर्याम् वन्नपानादिषु रसमलधातुभावेन परिणाममुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पादविनाशौ सम्भवत इति स्थैर्याभावात्कथमनुसन्धानादिकार्ययोगोऽस्येति ।
पिठरपाकवादिमतम्अपरे-पुनः प्रत्यक्षबलवत्तया घटादेरविनाशमेव पच्यमानस्य मन्यन्ते सषि: रद्रव्यारम्भाच्चान्तर्बहिश्च पाकोऽप्युपपत्स्यते दृश्यते च पकेऽपि कलशे निषिक्तानामपां बहिः शीतस्पर्शग्रहणमतश्च पाककाले ज्वलदनलशिखाकलाऽनुप्रवेशकृतविनाशबलादपि शिशिरतरनीरकणनिकरानुप्रवेशकृतनाशप्रसङ्गः, न चेदृशी प्रमाणदृष्टिरतः प्रकृतिसुषिरतयैव कार्यद्रव्यस्य घटादेरारम्भादन्तरन्तस्तेजःकणानुप्रवेशकृतपाकोपपत्तरलं विनाशकल्पनया पिठरपाकपक्ष एव पेशलः,
याहगेव हि निक्षिप्तो घटः पाकाय कन्दुके(१)।
पाकेऽपि तादगेवासावुद्गगतो दृश्यते ततः ॥ कचित्तु संनिवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते पावकसंपर्कस्य तत्कारित्वे तु सर्वत्र तथाभावः स्यात्, तस्मादविनष्टा एव घटादयः पच्यन्ते सोऽयं तु घटादिन्यायः शरीरे नेष्यते,
न ह्यन्नपाकस्थैर्येऽपि तत्र कुम्भादिपाकवत् ।
चयापचययुक्तं हि शरीरमुपलभ्यते ॥ तस्मात्परिमाणादिभेददर्शनान्नैकं शरीरमिति ज्वालाऽऽदिप्रत्यभिज्ञावत्तत्प्रत्यभिज्ञति स्थितम्।
यदप्युच्यते-अवस्थानामेव नानात्वमवस्थाता पुनरेक एव देहाख्य इति तद. प्ययुक्तम् , भेदाभेदविकल्पानुपपत्तेः, यदि शरीराव्यतिरिक्ता एव तवस्थाः तदाऽवस्थानामप्यन्योन्यं भेदो न स्याद्, अथ व्यतिरिक्ताःशरीरावस्थाः तर्हि भेदेन तदुपग्रहो दर्शयितव्यः, न चासावस्ति गोत्वादावनुवृत्त्या बुद्धिरनन्यथासिद्धा सती न केन चित्प्रतिहन्यते, इह पुनरवस्थान्तरकत्वग्राहिणी बुद्धिः पूर्वनीत्या प्रमाणबाधितत्वाद् भ्रान्तेति, तस्माच्छरीरस्य भिन्नत्वात्संतानान्तरवत् स्मृत्यनु. संधानादिकार्ययोगो दुर्घट इति न तस्येच्छाऽऽदिकार्याश्रयत्वम् , इतश्च न शरीरस्य ज्ञानादियोगः परिणामित्वात्क्षीरादिवत् रूपादिमत्त्वात्तद्वदेव, अनेकसमूहस्वभावत्वात् त्रिदण्डादिवत् सन्निवेशविशिष्टत्वाच्च बाह्यभूतवत् , चैतन्यशून्य. शरीरं शरीरत्वान्मृतशरीरवत्, न शरीरधर्मश्चैतन्यमयावद्व्यभावित्वात, न च कण्ड्वादिभिव्यभिचारः तदुपजनापाययोनिमित्तान्तरजन्यत्वदर्शनादिह च तदभावाद्विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः, तद्विशेषगुणत्वे हि चैतन्यस्य रूपादिवत्तवस्थानादविनाशप्रसङ्गः ।
(१) कन्दुकम् -'पजावा' इति प्रसिद्धः ।