SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ शरीरस्येच्छाऽऽद्याश्रयत्वानुपपत्तिः। ११ नन्ववस्थामात्रमेव भिन्नमवस्थातृशरीरस्वरूपमभिन्नमेव प्रत्यभिज्ञाप्रत्यय. प्रामाण्यादवगम्यते, न चेयं प्रत्यभिज्ञा लूनपुनर्जातनखादिप्रत्यभिज्ञावदन्यथासिद्धो विनाशस्यासम्मवात, स्तम्बादौ हि क्षणभङ्गित्वप्रतिषेधः प्रत्यभिज्ञयव करिष्यते सा चेहापि तादृश्येव, तदयुक्तम्-स्तम्बादौ नानात्वकारणाग्रहणाद् इह तु रूपपरिमाणपरिवेशाद्यन्यत्वदर्शनात्सादृश्यनिबन्धनेयं भ्रान्तिरेव प्रत्यभिज्ञा न खलु शिशुशरीरे तरुणशरीरे जरच्छरीरे च तुल्यमेव परिमाणाधुपलभ्यते, आहारपरिणामाच देहभेदोऽवगम्यते। पाकजोत्पत्तिमार्गेण न जीर्येतानमन्यथा ॥ न भवेत्परिपोषो हि दधिक्षीरादिभक्षणे । काञ्चनाद्युपयोगन दृश्यते तस्य रक्तता ।। क्षीणैरवयवैः कैश्चित्कैश्चित्त्वभिनवोद्गतः। अभिन्न एवावयवी कथं भवितुमर्हति ॥ तथा च के चित्पच्यमानस्य घटादेरपि प्रागवस्थाविसदृशरूपादियोगिनः पाककारणभूतवेगवदग्निद्रव्यसंयोगपर्यालोचनयैव प्रलयोदयौ कल्पितवन्तः । पीलुपाकवादिमतम्यद्यपि कन्दुकनिक्षिप्ता घटादयः तृणपर्णादिपिहितवपुषोऽपि तद्विवरप्रसतेन नयनरश्मिना न विनष्टा इत्युपलभ्यन्ते, यद्यपि तत्संख्या तत्परिमाणं तत्सन्निवेशस्तदेशाश्च पक्का अपि दृश्यन्ते यद्यपि ततो विभक्ता न विभाव्यन्ते; ततः तेषांकादिकारणकलापासंभवात्पुनर्घटनमघटमानमिव लक्ष्यते; तथाऽपि तेषामनुमानेन विनाशः परिकल्प्यते, सर्वावयवेष्वन्तर्बहिश्च पाकपूर्वकपूर्वरूपादिविलक्षणगुणोपलब्धेरन्तः प्रवेशः कृशानोरनुमीयते, तेन वेगवता वह्निद्रव्येण नोदनादभिघाताद्वा नूनं घटाघारम्भकेष्ववयवेषु क्रिया जायते क्रियातो विभागः विभा. गाद् द्रव्यारम्भकसंयोगविनाशस्तद्विनाशाद् द्रव्यविनाश इति, अनुप्रवे. शपक्षेऽपि सूचमविवरपरिकल्पनादवश्यमवयवसंयोगविघटनं घटादेरिति विनाश एव, अपि च पाकानन्तरं कन्दुकादपकृष्यमाणः पिठरादयः के चित्स्फुटिता: के चिद्वक्रतां गताः के चित्संनिवेशान्तरमेव प्रतिपन्ना दृश्यन्ते तस्मादपि प. श्यामो नश्यन्तीति, तत्संख्यत्वादिति सर्वमनैकान्तिकं सूच्यप्रविद्धकण्ठकोणः कुम्भादिभिः, पूर्वोक्तनीत्या नष्टेषु घटादिकार्यद्रव्येषु परमाणव एव पच्यन्ते, पकाश्च श्यामादिगुणानवजहतो रक्तादिगुणान्तरयोगमनुभवन्तः प्राणिगतसुखदुःखोपभोगसाधनभूतादृष्टप्रर्यमाणाः परस्परं संयुज्य द्यणुकादिप्रक्रमेण ताहशमेव घटादिकार्यमारभन्ते तत्रामुष्मिन्क्षणेऽमुष्य कार्यस्य प्रसवोऽमुष्य प्रलयइति प्रक्रिया न लिख्यते प्रन्थविस्तरभयादप्रयाजनत्वाच्चेति, एवं तपनातप. रश्यमानेष्वामादिफलेष्वेष एव न्यायः, शरीरेऽप्युदर्येण तेजसा पच्यमाने.
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy