________________
न्यायमअर्याम् : किंच काऽन्त्र व्याप्तिग्रहणकालः प्रमातृवद्धि तद्भेदेन भवितव्यं, ततः किम् ? इदं ततो भवति कथं स्वसंतान एव व्याप्तिर्गृह्यतां कथं च तत्रैव प्रमातृनियमाऽनुमीयतामिति सेयमुभयतः पाशा रज्जुः; आत्मा वा प्रत्यक्षो व्याप्तिर्वादुर. वगमति, नैतदेवं, यथा शाक्यपक्षे सत्त्वात्क्षणिकत्वानुमाने व्याप्तिग्रहणं तथे. हापि भविष्यति, तत्र हि यैव क्रमयोगपद्यव्यावृत्त्या सत्त्वस्य नित्येभ्यो व्यावृत्तिः स एव क्षणिकैरन्वय इति धर्म्यन्तरनिरपेक्षतयैव साध्येऽपिर्मिणि प्रति. बन्धग्रहणं चानुमानं च दर्शितं, तद्वदिहाप्येकप्रमातृपूर्वकत्वेन प्रतिसंधानस्य धर्म्यन्तरे यद्यपि ग्रहणं नास्ति तथाऽपि संतानान्तरभेदे यदस्य दर्शनं तदेव. ककर्तृकत्वदर्शनमिति कोऽनयोर्हेतुत्वे विशेषः, - ननु तत्र (१)चित्येभ्यः क्रमयोगपद्यव्यावृत्त्या व्यावृत्तं सत्त्वं शक्यग्रहण. मिह तु प्रमातृभेदेन प्रतिसंधानन्यावृत्तिर्दुरवगमा स्वसंतानेऽपि ज्ञानक्षणा भिन्ना एवं प्रमातारः, न च तेभ्यो व्यावृत्तं प्रतिसंधानमिति, तिष्ठत्व. न्वयो व्यतिरेकमुखेनापि कष्टमिदमनुमानं वर्तते स्वसंताने संतानान्तरवत्प्रमा. तृभेदाग्रहणात् तनेदग्रहे हि स्वसन्तानविवेको न स्यान्न चैवं प्रमातृभेदाग्रहणाभावात्पुनरप्यात्मा प्रत्यक्ष आयातः, ___ मैवम्-नात्मा प्रत्यक्षः प्रमातृभेदो हि स्वसंताने न गृह्यते, अन्यच भेदानहणमन्यच तदैक्यग्रहणं भेदाग्रहवदेव च व्याप्तिसिद्धेर्न कष्टमनुमानम् ,
ननु च स्वसन्ताने प्रमातृभेदाग्रहणं किं प्रमातुरकत्वादुत ज्ञानानां कार्यकारणभावादिति न निश्चीयते' ततश्च संदिग्धो व्यतिरेकः यथा ज्ञानानां. कार्यकारणभावो नास्ति यथा च न तत्कृतोऽयं व्यवहारस्तथाऽनन्तरमेव वक्ष्यामः, तस्मादिच्छाऽऽदिकार्येण युक्तमेकप्रमात्रनुमानम् , . ननु चाश्रितमिच्छाऽऽदि देह एव भविष्यति ।
भूतानामव चैतन्यमिति प्रोह बृहस्पतिः ॥ उक्तं च मदशक्तिवद्विज्ञानमिति, उच्यते-शरीरं तावन्नेच्छाऽऽदेराश्रयः शैशवयौवनबार्धकादिदशाभेदेन भिन्नत्वात् ,
तथा हि नान्यदृष्टोऽर्थः स्मर्तुमन्येन शक्यते । न चान्येन स्मृते तस्मिन्नन्यस्येच्छोपजायते ॥ तेनाद्यादर्थविज्ञानात्प्रभृतीच्छासमुद्भवात् ।
एकस्य कार्यचक्रस्य वक्तव्यः कश्चिदाश्रयः । शरीरं च बाल्याद्यवस्थाभेदेन भिन्नमतस्तस्य नाश्रयो भवितुमर्हति सन्ता. नान्तरवद् यथा हि देवदत्तदृष्टेऽर्थे यज्ञदत्तस्य न स्मरणमेवं बालशरीराधनुभूते युवशरीरस्य तन्न स्यात्,
(१) 'चित्येभ्यः' इत्यत्र 'नित्येभ्यः' इति० क० पु. पा० ।