SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ आत्मानुमापकः। न च तद्विलक्षणाश्रितं; शरीराश्रितत्वस्य प्रत्यक्षत उपलम्भादिति, तदियमिच्छा प्रथमपदार्थदर्शनादिकार्यसमानकर्तृकतयाऽवगम्यमाना शरीरादिविलक्षणमाश्रयमवगमयति सविशेषणात्कार्यत्वादिति स्थितम् , यश्च स विलक्षण आश्रयस्तत्रात्मसंज्ञाऽऽगमिकी, एवमेव द्वेषादेरात्मलिङ्गता वक्तव्या, यज्जातीयस्यार्थस्य सन्निधानाद् दुःखमनुभूतवान् पुरुषः तज्जातीयमर्थ पुनरुपलभमानो दुःखसाधनतामनुसंधाय तं द्वेष्ट्रीति सोऽपि प्रतिसंधातारमेकमन्तरेण नोपपद्यते, आभ्यामिच्छाद्वेषाभ्यामनन्तरं प्रयत्नः समुत्पद्यते सोऽपि यथोक्तेन क्रमेणानुसंधानपूर्वक एव प्रयतमानस्य सुखदुःखे भवतः, ते अपि तथैव द्रष्टव्ये, ज्ञानं यद्यपि प्रथममनुसंधाननिरपेक्षमपि भवति तदपि च शक्यत एवात्मलिङ्गमभिधातुं तथाऽप्यनुसं. धानपूर्वेच्छाऽऽदिकार्यप्रकरणान्निर्णयात्मकमिह ज्ञानमुदाहर्तव्यं, तत्र हि बुभुत्साविमर्शादिपूर्वकत्वमुपकल्प्यते तदेवमिच्छाऽऽदीन्यात्मलिङ्गानीति स्थितम् , __शास्त्रे चानेकहेतूक्तिर्न दोषाय कथास्विव । शिष्यः कश्चित्क चित्किंचिदनुस्मृत्याभिधास्यति ।। इति कारुणिको मुनिरनेकमिह हेतुमार्गमुपदिष्टवान् , ... नन्वत्र चोदितमनुसंधातारमन्तरेण तदेतदिच्छाऽऽदिकाय नावकल्पत इति कथं ज्ञायते ? एकत्र प्रमातरि तदर्शनादिति यदुच्यते तदिदमेकप्रमातृग्रहणा. दात्मप्रत्यक्षत्वमङ्गीकृतं स्यादिति व्यर्थमनुमानम् ; अग्रहणे तु प्रमातुरेकम्य तत्पूर्वकेच्छाऽऽदेः प्रतिबन्धाग्रहणादशक्यमनुमानमिति, परिहृतमेतत् कार्यत्वेनैव लिङ्गत्वमिच्छाऽऽदेरुपवर्णितमस्माभिर्न स्मरणादिसमानाश्रयतयेति, किमर्थस्तहि प्रतिसंधानोपन्यासः ? शरीरादिषु तदाश्रयत्वप्रतिषेधार्थः, न त्वेवं. व्याख्यातवन्तो वयमेकस्य प्रमातुरिच्छाऽऽदिकार्याश्रयत्वदर्शनादेकाश्रयत्वानुमानमिति तस्मान्न दोषः, शरीराश्रयत्वप्रतिषेधसाधनत्वेऽपि हेतोर्व्याप्तिग्रहणा. सम्भवाद् , ग्राहक(१)बुद्धिदर्शनस्मरणेच्छाऽऽदिकार्यजातमेकत्र प्रमानियतत. याऽनवधारितम् , तत्कथमस्मदवस्थाऽऽदिभिन्नशरीराद्याश्रयत्वनिषेधस्य तत्पू. कस्य वाऽऽत्माश्रितत्वस्य सिद्धिः, ___ क एवमाह न गृहीतमेककर्तृकतया कार्यमिच्छाऽऽदीति, ? यदि गृहीतं तर्हि वक्तव्यं क गृहीतं केन वा प्रमाणेन गृहीतमिति ? स्वात्मन्येवेति चेत्सोऽयं. प्रत्यक्ष आत्मा भवेद् एवमनभ्युपगमे न व्याप्तिग्रहणमिति, ___ उच्यते-न च प्रत्यक्ष आत्मा न च व्याप्तेरग्रहणं न चैव धर्म्यन्तरे व्याप्ति. ह्यते किं तु स्वसंतान एव तथाऽपि न सिद्धयति प्रमातृनियतानुमान; कथमिव सिद्धयति संतानान्तरेषु प्रतिसंधानस्य दृष्टत्वात् , (१) 'ग्राहक' इत्यस्य स्थाने 'यावदू' इति क० पु० पा० । २ न्या०
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy