________________
- न्यायमञ्जर्याम् । ज्ञानेच्छासुखदुःखादि किलेदं लिङ्गमात्मनः । एकाश्रयतया ज्ञातमनुसंधातृबोधकम् ।। तथात्वेन च तज्ज्ञानमाश्रयज्ञानपूर्वकम् । ज्ञाते तत्राफलं लिङ्गमज्ञाते तु न लिङ्गता ।। तस्मात्प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम् । बृद्धागमानुसारेण संविदालोकनेन च ॥ अथ वाऽभिनिवेशेन किमनेन प्रयोजनम् ।
अनुमयत्वमेवास्तु लिङ्गनेच्छाऽऽदिनाऽऽत्मनः ।। तदाह सूत्रकारः-'इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्'(१), इच्छा नाम तावदित्थमुपजायते यज्जातीयमर्थमित्थमुपयुजानः पुरुषः पुरा सुखमनुभू. तवान् पुनः कालान्तरे तज्जातीयमुपलभ्य सुखसाधनतामनुस्मृत्य तमादातुमिच्छति सेयमनेन क्रमेण समुपजायमानेच्छा पूर्वापरानुसंधानसमर्थमाश्रयमनुमापयति कार्यस्य निराधारस्यानुपपत्तेराश्रयमात्रप्रतीतो चान्वयव्यतिरेकवानेव हेतुर्भवति, इच्छा धर्मिण्याश्रितेति साध्यो धर्मः कार्यत्वाद् घटादिवद् गुणत्वा; दिति वा हेतुर्वक्तव्यः, गुणत्वं चेच्छाऽऽदीनामचाक्षुषप्रत्यक्षत्वादिना रसादिवद्द. शितमाचार्यै :(२), एवमन्वयव्यतिरेकवताऽमुना हेतुनाऽधिष्ठानमात्रेऽनुमिते तद. धिष्ठानत्वे च देहेन्द्रियादौ प्रसक्ते पूर्वानुभूतसुखसाधनत्वानुसंधानसव्यपेक्षतदुत्पादनपर्यालोचनया तत्कार्यसमानकर्तृकत्वावगमाच्छरीरादिविलक्षणाश्रया(३), शरीरादिषु बाधकोपपत्तौ सत्यां कार्यत्वादित्यत्र च.साधर्म्यदृष्टान्तो न संभवतीति वैध' Hदृष्टान्त:-कार्यत्वे निर्विशेषणे य एव साधर्म्यदृष्टान्तो घटः स एव वैधर्म्यदृष्टान्तः सविशेषणे, यत्र विलक्षणाश्रितत्वं नास्ति तत्र सविशेषणं कार्यत्वमपि नास्ति यथा घटादाविति तु शक्यते वक्तुम् , तत्र कार्यमात्रयोगेऽपि सविशेषणानां कार्यत्वाभावाद्विलक्षणाश्रितत्वं नास्ति भूताश्रितत्वेन प्रत्यक्षमुपलभ्यमानत्वात् ।
ननु चान्वयदर्शनमन्तरेण केवलव्यतिरेकः प्रतीयमानः संदिग्धो भवति किं तत्साध्याभावकृतैव तस्य तस्माद्व्यावृत्तिरुत निमित्तान्तरकृतेति, संदि. ग्धव्यतिरेकस्य हेतोरगमकत्वं निश्चितव्यभिचारहेतुवदिति तार्किकाः,
उच्यते-स्यादेतदेवं यदि प्रथममनवगतान्वय एव केवलव्यतिरेकशरणो हेतुः प्रयुज्यते, यतस्त्वन्वयव्यतिरेकताऽवकाशं लभते घटो हि भूतलाश्रितत्वेन प्रत्यक्षमुपलभ्यते सदस्य विशेषणाश्रयविरहादेव सविशेषणहेतुशून्यता जाता निर्वि. शेषणावस्थायां तद्योगदर्शनादिति न संदिग्धो व्यतिरेकः, अथ वा शरीरत्वं सा. मान्यमिह वधर्म्यदृष्टान्तीकर्तव्यं, तत्र हि सर्वात्मना कार्यत्वस्पर्शोऽपि नास्ति - (१) गौतमसूत्रम् अ० १ आ० १ स० १०॥
(२) वल्लभाचार्य।। (३) इच्छेति शेषः ।